सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 736, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 736

[header]
खं. ६ अ. ३३ | पान ९५
[/header]

कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥५॥ मदनुग्रहतः सर्वे समर्था देवनायकाः । भविष्यथ न संदेहो युध्यध्वं दानवैः
सह ॥६॥ विकटस्य वचः श्रुत्वा देवा हर्षसमन्विताः । जगर्जुः शस्त्रसंयुक्ता भयहीनाश्च शक्तयः ॥७॥ तेषां गर्जितशब्देन
व्याप्तं सर्वं दिगंतरम् । दैत्या भययुताः सर्वे बभूवुर्ये समागताः ॥८॥ ततः क्रोधसमाविष्टा दैत्येशा बलिमुख्यकाः । जगर्जुः
सिंहनादैश्च शंखनादैः समंततः ॥९॥ ततो दैत्यगणाः सर्वे मुमुचुः शस्त्रपाणयः । शस्त्रवृष्टिं महोग्रां च मेघा इव
शिलोच्चये ॥१०॥ ततो देवाः स्वशास्त्रैस्तान्निवार्य युयुधुः परम् । दैत्या देवा महोग्राश्च युयुधुस्ते परस्परम् ॥११॥ नाऽभूत्
स्वपरबोधोऽपि रजसा छादिते रवौ । जघ्नुः परस्परं देव्यः शस्त्रास्त्रैर्मर्मभेदिभिः ॥१२॥ ततो रक्तसमोघैश्च नदी जाता
दुरत्यया । प्रवाहबहुला रक्तै रजः शांतं बभूव ह ॥१३॥ एवमेकदिनं घोरं दिवानिशि निरंतरम् । युद्धं बभूव दैत्यानां
देवानां तु जयैषिणाम् ॥१४॥ ततो देवा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् । जघ्नुः शस्त्रप्रहारैस्तु प्रपेलुर्देत्यनायकाः ॥१५॥
तद् दृष्ट्वा परमाश्चर्यं दैत्येंद्राः क्रोधमादधुः । बलिमुख्या महावीर्या आययू रणमंडलम् ॥१६॥ तैः शस्त्रास्त्रबलैः सर्वं देवानां
प्रहतं बलम् । प्रपेलुरमरास्तत्र भयभीता दिशो दश ॥१७॥ तत इंद्रः समायातो जघानामर्षतो बलिम् । वज्रेण पातयामास
दानवेंद्रं महाबलम् ॥१८॥ ततो हर्षयुता देवा जगर्जुर्नादसंयुताः । महेंद्रं कुंभकर्णश्च हृदि विव्याध मुष्टिना ॥१९॥ इंद्रः
पपात भूपृष्ठे ततो विष्णुर्महाबलः । चक्रं तत्याज संक्रुद्धो रणभूमौ विचक्षणः ॥२०॥ चक्रेण क्षुरधारेण हता दैत्याः
समंततः । रावणः क्रोधसंयुक्तस्तं ययौ रणकाम्यया ॥२१॥ गदया विष्णुना तत्र हतो मूर्च्छामवाप ह । कुंभकर्ण तथा
विष्णुर्मूर्च्छितं प्रचकार ह ॥२२॥ ततो दुर्मदकस्तत्र महिषः शंकरस्तथा । समाजगुर्महाविष्णुं क्रोधयुक्ताः समंततः ॥२३॥
ततोऽतिव्याकुलं दृष्ट्वा केशवं शंकरः स्वयम् । त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ ॥२४॥ भानुना दुर्मदस्तत्र गदया
पीडितो भृशम् । मूर्च्छितः स पपातैव वमन् रक्तं मुखाद् बहु ॥२५॥ त्रिशूलेन हतस्तत्र शंकरः शंकरेण च । पपात स
धरापृष्ठे मूर्च्छितो सुरनायकः ॥२६॥ चक्रेण महिषस्तत्र विष्णुना मूर्च्छितः कृतः। ततो हाहारवं कृत्वा प्रपेलुर्दैत्यदानवाः॥२७॥
देवानां जययुक्तानां बलं दृष्ट्वा महामुनिः । शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे ॥२८॥ एतस्मिन्नंतरे तत्र महाकाली
समाययौ । काव्यं गृह्य ययौ देवी तं चिक्षेप गुहांतरे ॥२९॥ ततः कामासुरः शोकयुतो दैत्यः प्रतापवान् । निःश्वस्य
योद्धुमायातस्तस्य पुत्रौ समूचतुः ॥३०॥ तिष्ठ तात गमिष्यावो रणं कृत्वा महारिपुम् । हनिष्यावो न संदेहः किं करिष्यति