सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 735, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 735

खं. ६ अ. ३३ पान ९४
ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ
सुरस्य वेगं तु सहते कः स्वरूपधृक् ॥१८॥ बलेर्वचनमाकर्ण्यासुरः कामः प्रतापवान् । जगाद दैत्यमुख्यांश्च हृदयेन
विदूयता ॥१९॥ कामासुर उवाच । वाणी सत्या बभूवापि स्वस्था मे शत्रुरागतः । हनिष्यामि मरिष्यामि किं वा तत्र भवि-
ष्यति ॥२०॥ कामासुरवचः श्रुत्वा दुर्मदस्तत्र चाब्रवीत् । वचनं तेजसा युक्तो वीर्ययुक्तं महासुरः ॥२१॥ दुर्मद उवाच ।
कुंभकर्णेन दृष्टश्च विकटो नात्र संशयः । उत्पत्तिनाशसंयुक्तो विचारय महामते ॥२२॥ यद् दृष्टं तत्प्रणष्टं वै पश्य वेदे
विचक्षण । कथं त्वां स महाराज हनिष्यति वरैर्युतम् ॥२३॥ मा चिंतां कुरु राजेंद्र वधिष्यामो वयं च ते । शत्रुं तत्र
जयैर्युक्ता भविष्यामो न संशयः ॥२४॥ आज्ञापय महादैत्यास्मांस्ते पादस्य किंकरान् । पश्य नो यत् महावीर्यं देव-
नाशकरं परम् ॥२५॥ देवैर्माया कृता चेयं खवाणी भयरूपिणी । मायया तं विनिर्माय भयार्थं दैत्यरक्षसाम् ॥२६॥ नेय-
माकाशवाणी वै विचारय महामते । देहधारी कथं त्वां स हनिष्यति महाबलम् ॥२७॥ दुर्मदस्य वचः श्रुत्वा बलिमुख्या
महाऽसुराः । हर्षयुक्ताः पुनस्तं ते जगुः सत्यं त्वयोदितम् ॥२८॥ ततः कामासुरश्चैव सन्नद्धः सर्वदैत्यपैः । चतुरंगबलै-
र्युक्तैर्निर्जगाम गजाननम् ॥२९॥ ततः शुक्रेण दैत्येंद्रो बोधितो बहुलोक्तिभिः । न बुबोध मदोत्सिक्तो बलगर्वेण
मोहितः ॥३०॥ भाविनं मुनिमुख्यश्च ज्ञात्वा काव्यो महायशाः । कालवेगं समाश्रित्य प्रययौ तमनु प्रभुः ॥३१॥ दैत्याः
क्रोधयुताः सर्वे समाजग्मुः प्रहर्षिताः । देवमर्दनकामार्थं यत्र देवाः स्थिताः पुरा ॥३२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः ॥
❧❦❧
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । समागतं महत् सैन्यं नानाशस्त्रविराजितम् । अपारं तत् समालोक्य देवेशा
गणपं ययुः ॥१॥ देवेशा ऊचुः । कामासुरः स्वयं साक्षादागतः स महाबलः । यस्याग्रे देवदेवेशा मशका इव संबभुः ॥२॥
यस्य शस्त्रबलं स्वामिन्नमोघं सर्वदा बभौ । न बले सदृशस्तस्य सोऽयं कामः समागतः ॥३॥ रक्ष नः कामसंत्रस्तान्नोचेत्
कामः प्रतापवान् । देवर्षीणां गणेशान जीवग्राहं करिष्यति ॥४॥ तेषां वचनमाकर्ण्य तान् जगाद गजाननः । मा भयं
ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ