सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 540, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 540

[हेडर]
खं. ५ अ ६ पान ११


दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥३४॥ मनोवाणीविहीनो न मनोवाणीमयो न च । लंबोदरः समायात आश्चर्यं
भाति ते नमः ॥३५॥ किं स्तुवीमः गणेशानं यन्न वेदादयः प्रभो । शांतिं प्राप्ता वयं तन्न नः प्रसीद नमो नमः ॥३६॥
एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा । तानुवाच गणेशानो मेघगंभीरनिःस्वनः ॥३७॥ लंबोदर उवाच । वरं ब्रूत महाभागा
देवेंद्र मुनयोऽमलाः । तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥३८॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
पठते शृण्वते चेहामुत्र सौख्यप्रदं परम् ॥३९॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । नानासिद्धिप्रदं चास्तु मम
भक्तिविवर्धनम् ॥४०॥ ब्रह्मोवाच । लंबोदरवचः श्रुत्वा हृष्टा देवर्षयोऽभवन् । जगुस्तं प्रणिपत्यैव सर्वेषां भक्तपालकम् ॥४१॥
देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो ॥४२॥ स्थानभ्रष्टा वयं तेन
कृताः कर्मविहीनकाः । ऋषयश्च जगत् सर्वं स्वधास्वाहाविवर्जितम् ॥४३॥ अतो लंबोदर स्वामिंस्तवोदरसमुद्भवन् । एकं
हत्वा तथा सर्वान् रक्ष स्वभक्तकान् प्रभो ॥४४॥ भक्तिं देहि त्वदीयां नः सर्वक्रोधविनाशिनीम् । तया शांतिसमायुक्ता
भजिष्यामो विशेषतः ॥४५॥ तव भक्तिर्यदा प्राप्ता लंबोदर तदा शुभम् । भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै
स्मृतः ॥४६॥ सर्वं मुनीनां देवानां वचः श्रुत्वा महाप्रभुः । लंबोदरश्च तान् प्राह तथेति भक्तियंत्रितः ॥४७॥ ततः सोऽंतर्हितो
देवो देवास्तत्रैव संस्थिताः । मुनयश्च भयोद्विग्नाः कालकांक्षां प्रचक्रिरे ॥४८॥
॥ ओमिति श्रीमदान्त्या पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते देवर्षिवरप्रदानं नाम पंचमोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । विश्वामित्रवसिष्ठौ च शृणुतं परमाद्भुतम् । चरितं गणनाथस्य महाशांतिप्रदायकम् ॥१॥
कदाचित् क्रोधको दैत्यः सभासनगतोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥२॥ लंबोदरश्च मुनिभिर्देवैः
सार्धं वधाय ते । प्रार्थितः स तु हत्वा त्वां जगत् सुखि करिष्यति ॥३॥ तच्छ्रुत्वा मूच्छितं क्रोधं सहसा भयविह्वलम् ।
तं दैत्येंद्राश्च विप्रर्षी सावधानं प्रचक्रिरे ॥४॥ शोकयुक्ता विशेषेण पप्रच्छुस्तं महासुराः । बल्याद्या भयभीताश्च किं जातं
वद मानद ॥५॥ दैत्येशानां वचः श्रुत्वा भययुक्तो महासुरः । जगाद तान् स वृत्तांतमाकाशे वाक्समुद्भवम् ॥६॥ तच्छ्रुत्वा