सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 539, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 539

पान १०

दुःखसंयुताः । वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे ॥८॥ सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिताऽभवत् । गृहे गृहे तथा
तस्याऽसुरैः पूजा प्रवर्तिता ॥९॥ एवं हा हा कृतं सर्वं त्रैलोक्यं तेन वैरिणा । देवाः सर्वे भयोद्विग्ना बभूवुः कर्मखंडनात्
॥१०॥ कर्मखंडनभावेनोपोषणैः संयुताः सुराः । ततस्तस्य विनाशार्थं यत्नवंतो बभूविरे ॥११॥ न प्रापुस्तस्य शांत्यर्थ-
मुपायं ते सुरेश्वराः । ततोऽतिखेदसंयुक्ता बभूवुस्त्रासकंपिताः ॥१२॥ एतस्मिन्नंतरे तत्र वसिष्ठो योगिनां वरः । जगाद
तान् सुरेशानान्निःश्वस्य हितकारकः ॥१३॥ वसिष्ठ उवाच । उत्पत्तिस्थितिसंहारैर्वयं युक्ता न संशयः । अस्मभ्यो मरणं
तस्य न भविष्यति निश्चितम् ॥१४॥ स्वानंदवासकरणं गणेशं ब्रह्मनायकम् । त्रिभिर्हीनं जगुर्वेदास्तं सेवध्वं सुरेश्वराः
॥१५॥ हत्वा क्रोधासुरं सोऽपि स्वपदानि प्रदास्यति । अस्मभ्यं नात्र संदेहं कुर्वंतु प्रयताः सुराः ॥१६॥ वसिष्ठवचनं
श्रुत्वा हर्षयुक्ताः सुरर्षयः । साधु साधु मुनिं सर्वे जगुर्ज्ञाननिधिं परम् ॥१७॥ ततस्ते मंत्रराजं वै जेपुर्लंबोदरस्य च ।
भक्तियुक्तास्तपोनिष्ठा ध्यानसंस्था बभूविरे ॥१८॥ नानानुष्ठानयोगैश्चातोषयंस्ते गजाननम् । उपोषणपराः सर्वे विधियुक्ता
महामुनी ॥१९॥ एवं वर्षसहस्रे च प्रगते तोषसंयुतः । लंबोदरः प्रसन्नात्मा तान् ययौ वरदायकः ॥२०॥ समागतं गणेशानं
दृष्ट्वा देवर्षयः पुरः । उत्थाय हर्षसंयुक्ताः प्रणेमुर्दंडवद्भुवि ॥२१॥ पुपूजुर्भक्तिसंयुक्ताः प्रभुं नानोपचारकैः । पुनः प्रणम्य
संतुष्टास्तुष्टुवुः करसंपुटैः ॥२२॥ देवर्षय ऊचुः । नमस्ते गणनाधाय लंबोदरधराय च । गजवक्त्राय सर्वेषां नमः पूज्याय ते
नमः ॥२३॥ स्वानंदपतये तुभ्यं सर्वस्वानंददायिने । अनाधाय च सर्वेषां नायकाय नमो नमः ॥२४॥ नमो विघ्नेश्वरायैव
भक्तविघ्नविनाशिने । अभक्तानां महाविघ्नकारकाय नमो नमः ॥२५॥ उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे । अनादये
परेशाय महोदर नमोऽस्तु ते ॥२६॥ मायिनां मोहकायैव मायाविने परात्मने । सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने
॥२७॥ अपाराननरूपायपारहस्तपदाय च । गुणेशाय गुणानां ते चालकाय नमो नमः ॥२८॥ आदिमध्यांतरूपायादि-
मध्यांतस्वरूपिणे । अनाकाराय ते चाकारयुक्ताय नमो नमः ॥२९॥ ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने । आदिपूज्याय
चांते ते संस्थिताय नमो नमः ॥३०॥ नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो । संभूतमदुरात्ते वै तेन लंबोदरो भवान्
॥३१॥ तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः । तेन लंबोदरोऽसि त्वं लंबोदर नमोऽस्तु ते ॥३२॥ सर्वेषामुदराणां त्वं पारं
जानासि विघ्नप । उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥३३॥ एतादृशोऽयमानंदनामानंदप्रदायकः । प्रत्यक्षं