सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 251, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 251

खं. २ अ. ५९ | पान १२५
एवं दृढामग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥१७॥ संज्ञया सवितुर्वार्थं त्यक्तं
तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यौ बभूवतुः ॥१८॥ गणेशभक्तिभावेन संज्ञा सुबहुपुत्रताऽभवत् । तमेव
सततं देवी भजतेऽनन्यमानसा ॥१९॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरो-
ऽभवत् ॥२०॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥२१॥ यम उवाच । नमो
गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥२२॥ मायामोहविहीनाय साक्षिणे
जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥२३॥ अनंताय नमस्तुभ्यं हेरंबाय च ढुंढये । विघ्नेशाय त्रिनेत्राय
लंबोदर नमोऽस्तु ते ॥२४॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहंत्रे च रक्षसां मर्दिने नमः ॥२५॥ भक्तिप्रियाय
भक्तेभ्यो नानासौख्यप्रदाय ते । अनंताननधारायानंतरूपाय ते नमः ॥२६॥ अनंतशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय
शिववंद्याय शिवदाय नमो नमः ॥२७॥ अखंडविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाह्यास्थायैकदंताय ते
नमः ॥२८॥ आदिमध्यांतरूपाय सर्वकार्याय ते नमः । पाशांकुशधरायैव सर्वभोक्त्रे नमो नमः ॥२९॥ त्वां स्तोतुं कः
समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥३०॥ धन्योऽहं सर्वभावेन येन दृष्टो गणेश्वरः ।
अधुना रक्ष मां भक्तं शरणागतवत्सल ॥३१॥ एवं स्तुवंतमत्यंतमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम्
॥३२॥ गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥३३॥ ततस्तं
भानुजस्त्रोत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥३४॥ अन्यं वरं च मे देहि मातृशापाहरं
परम् । ययदिच्छामि देवेश तत्तत् सिध्यतु विप्रप ॥३५॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते
महाभक्तिर्भविष्यति न संशयः ॥३६॥ मातृशापस्य योगेन किंचिद् दुःखमवाप्स्यसि । कृद्यपादाच्च मांसं ते कीटाः संसृज्य
सत्वरम् ॥३७॥ पतिष्यंति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥३८॥ दक्षिणस्यां
दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥३९॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो
मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥४०॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं
पुण्यं कृतं तच्च सुसिद्धिदम् ॥४१॥ पठते शृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो