सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 250, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 250

संज्ञा पुत्रांश्च भेदतः। सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥४३॥ मनुश्च सेहे तं मातुरपराधं विचक्षणः। धर्मराजः
स तां तत्र निषिषेध मुहुर्मुहुः ॥४४॥ सा स्वभावं स्वकीयं तं न तत्याज कदाचन। कुपितो धर्मराजस्तां पदा हन्तुं
प्रचक्रमे ॥४५॥ तं चाविनयसंयुक्तं शशाप जननी सुतम्। पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥४६॥ धर्मः क्रोधं
समागृह्य सवितारं जगाम ह। भयभीतश्च शापेन वृत्तांतं तं जगाद सः ॥४७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते यमशापवर्णनं नामाष्टपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच। यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत्। धर्मशीलस्य संक्रोधो मातरि प्रबभूव
ह ॥१॥ माता स्वदेहजं पुत्रं भेदबुद्ध्या शशाप ह। अतः कारणकं किंचिद्विपरीतं भवेदिह ॥२॥ ततो ज्ञानेन बुद्ध्वा स
यमं भानुरुवाच ह। मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥३॥ अतो विनायकं देवं भज त्वं भक्तिभावतः।
स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥४॥ एवमुक्त्वाऽर्यमा पुत्रं मंत्रं पंचाक्षरं ददौ। विधियुक्तं गणेशस्य स ययौ
वनमादरात् ॥५॥ सविताऽसौ जगामेदं छायां वचनमब्रवीत्। संज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥६॥ सा
भीता सत्यमेवेदं वचनं तं जगाद ह। पितुर्गृहं गता संज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥७॥ सत्यभाषणयोगेन तुष्टस्तां न
शशाप सः। जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥८॥ तं प्रणम्य स पप्रच्छ वृत्तांतं रक्तलोचनः। संज्ञाया
विश्वकर्मा तं सांत्वयामास युक्तिभिः ॥९॥ विश्वकर्मोवाच। मया ते गृहमेवं सा प्रेषिता नागता यदा। मायया गुप्तरूपेण कुत्र
वै संस्थिता भवेत् ॥१०॥ त्वदीयतेजसा तप्ता गता शुष्कशरीरका। अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥११॥
ततः सोऽपि जगादेदं वचनं तं विभावसुः। त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥१२॥ ततस्तेन स्वयंत्रे
संस्थाप्य तेजो हृतं महत्। तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥१३॥ अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः।
अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥१४॥ साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत्। ततः सूर्येण वीर्यं स्वं
नसि निक्षिप्तमादरात् ॥१५॥ ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात्। निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥१६॥