सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 247, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 247

विघ्नपः ॥३३॥ तेनाऽहं प्रेषितो नूनं शुंडादंडधरेण च । चल शीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् ॥३४॥ श्रुत्वा तस्य वचो
रम्यं भक्त्याऽत्यंतं लुलोठ च । रोमांचितशरीरोऽसौ साश्रुनेत्रो महामुनिः ॥३५॥ तं दृष्ट्वा विस्मितोऽत्यंतं काशिराजो
महामनाः। अहो भक्तिरियं साक्षाद् दृश्यते देहधारिणी ॥३६॥ देहभावं समासाद्य यात्रार्थं तेन भूभुजा। भृशुंडी चलितश्चैव
स्वाश्रमात् प्रजगाम सः ॥३७॥ देहश्रमेण यात्रा वै कर्तव्या गणपस्य च। विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ॥३८॥
ज्ञात्वा तस्य हृदिस्थं सा निश्चयं धरणी मुनिम् । प्रापयामास काश्यां तं क्षणेन नृपसंयुतम् ॥३९॥ नृपेण नगरी दृष्टा तमुवाच
ततः परम् । स्वामिन् समागता काशी प्रभावात्तपसश्च ते ॥४०॥ ततस्तं स्वगृहे नीत्वाऽपूजयन् नृपसत्तमः । विनायकः
समायातं भक्तं पश्यति साश्रुकः ॥४१॥ तस्य भावं विदित्वाऽसौ शुंडां धृत्वा विनायकः । मूषकोपरि संस्थाय प्रजगाम
महामुनिम् ॥४२॥ चतुर्भुजधरं विप्रो महोदरविराजितम् । शेषनाभिं त्वेकदंतं दृष्ट्वा तं प्रणनाम च ॥४३॥ अपूजयत् भृशुंडी तं
भक्तिभावसमन्वितः । पुनः प्रणम्य तुष्टाव नानास्तोत्रैः प्रसन्नधीः ॥४४॥ उवाच विस्खलद्वाक्यो भक्ते रसपरिप्लुतः ।
गजाननं निजं नाथं कृतकृत्यो महासुर ॥४५॥ भृशुंड्युवाच । तव दर्शनमात्रेण कृतकृत्यो गजानन । महता भाग्ययोगेन
दृष्टं ते चरणं विभो ॥४६॥ अधुना मे वरं देहि तेन तुष्टो भवाम्यहम् । तव विस्मरणं नाथ न भवेन् मे तथा कुरु ॥४७॥
अनेनैव स्वरूपेण मत्स्थाने संस्थितो भव । आशापूरकनाम्ना त्वं ख्यातो भव गजानन ॥४८॥ तत्रैवानन्यभक्त्या त्वां
भजामि रसयुक्तया । मुद्गलेन समं मां त्वं पूर्ण भक्तं कुरु प्रभो ॥४९॥ अथवा मुद्गलाच्चैवाधिकं मां कुरु विघ्नप ।
गुरोरतिक्रमाच्छिष्यः पुत्रो वा तस्य नाल्पकः ॥५०॥ एवं प्रार्थयमानं तं तथेति गणनायकः । जगाद स पुनर्बालो
भूत्वाऽखेलत्तु सादरम् ॥५१॥ तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः । भृशुंडी च ततः काशिराजः संविस्मितोऽभवत् ॥५२॥
हृदि राजा विचार्यासावेकनिष्ठो बभूव ह । गणेशभजने दृष्ट्वा भृशुंडीचरितं महत् ॥५३॥ अहो मुनिवरो धन्यो
नानारूपात्मिकां पराम् । मायां त्यक्त्वा स योगेन भजते गणनायकम् ॥५४॥ सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो ।
अतस्तमेकभावेन भजतेऽसौ महामुनिः ॥५५॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । कोऽंशेन समा नान्या
तत् भजेत् योगिसत्तमः ॥५६॥ सर्वत्र गणराजोऽयं वसत्यत्र न संशयः । कलांशेन ततोऽन्येषां भजने च फलं लभेत् ॥५७॥
गणेशभजनं ह्येकं चेत् पूर्णं भजनं भवेत् । सर्वेषां च गणेशस्य भृशुंडी तत् समाश्रितः ॥५८॥ अहो भृशुंडिना तुल्यो दृश्यते