सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 246, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 246

ख. २ अ. ५७ पान १२०


संभूतं संस्थितांश्च व्यलोकयन् ॥८॥ तत्र तं पंचमे देवं दिवसे मुनिनंदनम् । प्रणम्य काशिराजः स भोजनार्थममंत्रयत् ॥९॥
चतुर्थ्यां शुक्लपक्षस्य प्रातःकाले महामुनिः । भृशुंडी चापूजयत्तं मानस्या पूजया प्रभुम् ॥१०॥ पूजां दृष्ट्वा स्वयं राजा
प्रातस्तत्र सुविस्मितः । उवाच तं कृता केन पूजेयं वद मे प्रभो ॥११॥ ततस्तं कथयामास भृशुंडी मेऽतिवल्लभः । महाभक्तः
करोतीमां पूजां पश्य नराधिप ॥१२॥ एकनिष्ठतया विप्रो भजते मां विशेषतः । मद्दिनान्यन्न जानाति देवतीर्थादिकं
कदा ॥१३॥ श्रुत्वा तस्य वचो रम्यं जगाद नृपसत्तमः । विनायकं प्रणम्यैव तं प्रदर्शय योगिनम् ॥१४॥ काशिराजवचः
श्रुत्वा प्रेषयामास तं ततः । जवनाश्वसमारूढो राजा तस्याश्रमं ययौ ॥१५॥ दृष्ट्वा तं शुंडया युक्तं स नत्वा विस्मितो
नृपः । प्रार्थयामास योगीशं काश्यां नेतुं सुभक्तितः ॥१६॥ काशिराज उवाच । विनायकाज्ञया स्वामिन्नागतस्तेऽहमाश्रमे ।
त्वामाह्वयति देवोऽसौ मद्गृहे संस्थितः स्वयम् ॥१७॥ चतुर्थ्यामद्य योगींद्र मानस्या पूजया त्वया । पूजितस्तां महापूजां
दर्शयामास मां विभुः ॥१८॥ कश्यपस्य गृहे सोऽपि विनायक इति स्मृतः । तपसाऽऽराधितस्तेन पुत्रोऽभूद्गणनायकः ॥१९॥
अहं तस्य तथा दासो यजमानो महामते । विवाहार्थं तु पुत्रस्याऽऽनीतोऽसौ मद्गृहे मया ॥२०॥ विनायकेन कथितमानयस्व
महामुनिम् । याचे ह्यतोऽहं योगींद्राऽऽगच्छ काशीं महापुरीम् ॥२१॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसत्तमः । उवाच
तं स गाणेशः काशिराजं महामतिम् ॥२२॥ भृशुण्ड्युवाच । शृणु राजन् महाभाग वेदांतागोचरो विभुः । यदि भक्त्या
समायातस्त्वद्गृहे कश्यपात्मजः ॥२३॥ तथापि शुंडया हीनं नमामि न कदाचन । कलांशादिसमायुक्तं जानीहि नृपसत्तम ॥२४॥
कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः । ते सर्वे मां नमंत्येव शुंडाभक्तियुतं परम् ॥२५॥ गजाननं परित्यज्याऽहं
नमामि न कंचन । अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकम् ॥२६॥ तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् । उवाच
तं प्रणम्यैव काशिराजः प्रतापवान् ॥२७॥ काशिराज उवाच । मुने शृणु वचो मेऽद्य नाऽहं शक्तो भवामि च । काश्यां गंतुं
महाभागाऽपराह्ने श्रांतवाहनः ॥२८॥ ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु । तथाभूतं नृपश्रेष्ठं प्रेषयामास तां पुरीम् ॥२९॥
पुनरुन्मील्य नेत्रे स्वेऽपश्यद्देहं महानृपः । स्वां पुरीं विस्मितो भूत्वा प्रणाम विनायकम् ॥३०॥ वृत्तं संश्रुत्य भूपेशात्
पुनस्तं गणनायकः । मायया स मुनेस्तस्याश्रमस्थमकरोत्ततः ॥३१॥ पुनः समागतं वीक्ष्य नृपं प्राह महामुनिः । किमर्थ-
मागतो राजन्नद्यैव वद मे गृहे ॥३२॥ ततस्तं राजशार्दूलो जगाद कथितं च यत् । विनायकेन भोः स्वामिंस्त्वामाह्वयति