मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०३
सुरभ्यब्जच्छन्नं भद्रकाख्यं सरः। साम्प्रतमि-
लावृतादिद्वीपनिवासिनो जनस्याहारायुःका-
न्त्यादिवर्णनम् ॥ ८० ॥
त्रयोदशसहस्रायु-
र्जम्बूफलरसाशनः ।
मेर्वालोकोपलब्धार्थो
जनः सुत्वगिलावृते ॥ ८१ ॥
मेर्वालोकेन च दीपेन प्रकाशेनाधिगतप-
दार्थः । सुत्वगिति कान्तच्छविः ॥ ८१ ॥
वर्षायुतायुर्नीलाब्ज-
द्युतिः पनससारभुक् ।
केतुमाले जनो दिव्य-
देहबन्धः सुखी बली ॥ ८२ ॥
वर्षाणामयुतं दशसहस्राणि आयुर्यस्य स
तथा । पनसाख्यानि फलानि तेषां सारो निः-
ष्यन्दस्तं भुङ्क्ते इति पनससारभुक् ॥ ८२ ॥
चन्द्रबिम्बद्युतिर्नीला-
ब्जाशनो भद्रवाजिनि ।
३०४ मृगेन्द्रतन्त्रे । [ १।१३
दशवर्षसहस्रायु-
र्दुःखशोकभयोज्झितः ॥ ८३ ॥
भद्रवाजिनि इति भद्राश्वे वर्षे ॥ ८३ ॥
त्रिंशदब्दसहस्रायुः
कामवृक्षफलाशनः ।
युग्मप्रसूतिः कुरुषु
श्यामापुष्पद्युतिर्जनः ॥ ८४ ॥
कामादिच्छातो वृक्षफलाशनं यस्य, यथे-
ष्टानि वृक्षफलानि निर्माय भुङ्क इत्यर्थः । कु-
रुषु इति कुरुवर्षे । युग्मप्रसूतिः युगपत् क-
न्याकुमारौ स्तः । श्यामा प्रियङ्गुः तत्पुष्पद्युति-
गौरप्रायकान्तिः ॥ ८४ ॥
अथात्रैव वर्षे संनिकर्षस्थौ चन्द्रद्वीपभद्रा-
करद्वीपौ उच्येते
भूतवेदसहस्रौ द्वा-
वेकदिक्संधिलक्षितौ ।
सोमवाय्वाशयोः सिद्ध-
मुनिचारणसेवितौ ॥ ८५ ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०५
चन्द्रभद्राकरौ द्वीपौ
चन्द्ररक्ताब्जरुग्जनौ ।
ऐलावृतं तयोरायुः
फलं मूलं च भोजनम् ॥ ८६ ॥
अन्तर्भावः कुरुष्वब्धौ
सान्निध्यात्कीर्तितौ ततः ।
कुरुवर्षोपान्तर्वर्तिनि क्षाराब्धौ पञ्चचत्वा-
रिशद्योजनसहस्राणि आवृत्य स्थितौ, एकेन
दिक्संधिना लक्षितौ दृश्यमानौ उत्तरवायव्य-
दिग्गतौ सिद्धादिजुष्टौ चन्द्रभद्राकरौ द्वीपौ
ज्ञेयौ । तत्र चन्द्रद्वीपे चन्द्रद्युतिर्जनः, भद्रा-
करद्वीपे च रक्ताब्जरुचिः । तद्वासिनां चेला-
वृतोक्तमायुः । अशनं च फलमूलानि । अब्धौ
यद्भूतवेदसहस्रसंख्यं स्थानं तस्मिन् स्थितौ
इति व्यधिकरणे सप्तमी । सान्निध्यात् सा-
मीप्यात् ॥
अध्यर्धानि सहस्राणि
द्वादशायुर्हिरण्वति ॥ ८७ ॥
३९
३०६ मृगेन्द्रतन्त्रे । [ ११।३
जनस्येन्दुत्विषो नित्य-
मश्नतो लाकुचं फलम् ।
हिरण्यवत्संज्ञे वर्षे लकुचफलाशिनश्चन्द्रका-
न्तेर्जनस्य सार्धानि द्वादशसहस्राण्यायुः ॥
नीलनीरजरम्यस्य
रम्यके द्वादशस्थितिः ॥ ८८ ॥
जनस्याब्दसहस्राणि
न्यग्रोधफलमश्नतः ।
रम्यकाख्ये वर्षे नीलाब्जद्युतेर्जनस्य वरफ-
लाशिनो द्वादशसहस्राणि स्थितिः ॥
रजतद्युतिरिक्ष्वाद-
स्तावदायुर्हरौ जनः ॥ ८९ ॥
रौक्मः किंपुरुषे प्लक्ष-
भोजनोऽब्दायुतस्थितिः ।
हरिवर्षे रजतप्रभः प्रागुक्तायुः । इक्षुमेवान्न-
त्वेन आ समन्तादत्ति इति इक्ष्वादः । जनः
किंपुरुषवर्षे हेमाभः लक्षफलाशी अब्दायुत-
जीवी च ॥
१ इक्ष्वादादनन्तरं 'तदेव भोजनो' इत्यधिकः पाठः 'क' पुस्तके ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०७
इति किंपुरुषादीनि
वर्षाण्युक्तानि यानि ते ॥ ९० ॥
न तेष्ववस्थाभेदोऽस्ति
विवर्तिषु कृतादिषु ।
युगानुरूपप्रज्ञायु-
स्तेजोबलधनप्रजः ॥ ९१ ॥
कृष्टाकृष्टाशनो दुःख-
त्रयार्त्तो भारते जनः ।
गुण एको यद्युक्तो
नेष्टं किंचिन्न साधयेत् ॥ ९२ ॥
सर्वासां फलभूमीनां
कर्मभूः कारणं यतः ।
इत्थमुक्ते किंपुरुषादिवर्षे युगपरिवर्तनेऽपि
नावस्थाभेदोऽस्ति । अस्मिंस्तु भारते वर्षे जनः
कृतादियुगानुसारिणि बुद्धिजीवितकान्तिवी-
र्यार्थापत्यानि यस्य स तथाविधः । एतानि
बुद्ध्यादीनि कृतादिषु युगेषु जनस्य यथायथं
ह्रासवन्तीत्यर्थः । आध्यात्मिकाधिदैविकाधिभौ-
३०८ मृगेन्द्रतन्त्रे । [ ११३
तिकदुःखत्रयार्तः कृष्टजाताकृष्टजातभोजी चात्र
जनः । एकस्त्वयं गुणो यत्कृतोद्यमः किं पु-
नर्न साधयेत्, सर्वमेव साधयितुमलमिति या-
वत् । कुत इत्याह, सर्वासां यस्मात्फलभूमीना-
मियं कर्मभूमिः कारणम् ।
'कर्मभूमिरियं ब्रह्मन् फलभूमिरतः परा ।
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ॥'
इति । सर्वासामित्यतिशयोक्तिरन्यत्रासंभवात् ॥
नवाब्धिस्रोतसि द्वीपा
नव चात्रार्धकस्थले ॥ ९३ ॥
इन्द्रद्वीपप्रभृतयो
नामतस्तान्निबोध मे ।
अत्र भारते वर्षे नवभिरब्धिस्रोतोभिर्युक्ते ।
अर्धं कं येषां तानि अर्धकानि जलावृतार्धानि
स्थानानि यत्र तस्मिन् तादृशि । यथोक्तं श्री-
-मत्किरणे
: 'जलं पञ्च स्थलं पञ्च'
इति । एवंविधे भारते वर्षे इन्द्रद्वीपादिद्वीपन-
वकं नामतोऽभिधीयमानमवधारय ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०९
अथ तदाह
इन्द्रद्वीपः कशेरुश्च
ताम्रपर्णो गभस्तिमान् ॥ ९४ ॥
नागद्वीपश्चान्द्रमसो
गान्धर्वो वारुणस्तथा ।
कुमारिकाख्यो नवमो
नानापर्वतनिम्नगाः ॥ ९५ ॥
नानाजातिजनाकीर्णा
भारताख्ये प्रकीर्तिताः ।
एते नव द्वीपा विविधजातिजनपद्संकुलाः
भारतनाम्नि वर्षे कथिताः । द्वीपशब्दोऽर्धर्चा-
दिपाठात् पुंस्यपि ज्ञेयः ॥
आग्नीध्रो नाम नृपति-
र्जम्बूनाथो मनोः कुले ॥ ९६ ॥
तज्जातनृपसंज्ञाभिः
कथ्यन्ते भारतादयः ।
मनुवंशस्याग्नीध्रनाम्नो जम्बूद्वीपाधिपतेः भ-
रतादयो नव पुत्रा आसन् । तत्साधितानि ज-
३१० मृगेन्द्रतन्त्रे । [ १।१३
म्बूद्वीपखण्डानि नव भारतादिसंज्ञाभिः प्रसि-
द्धानि ॥
अथाब्धिसप्तकान्तरितद्वीपसप्तकमुच्यते
क्षारक्षीरदधिस्नेह-
रसमध्वामृतोदकैः ॥ ९७ ॥
लक्षादिद्विगुणा द्वीपा
जम्बूद्वीपादयो वृताः ।
जम्बूद्वीपादिद्वीपसप्तकं क्षारक्षीराद्यब्धिस-
प्तकेन लक्षादिद्विगुणप्रमाणेनान्तरितं ज्ञेयम् ।
जम्बूद्वीपाख्यायाः कारणं
‘द्वीपकेतुरभूज्जम्बूः’
इत्यादि पूर्वमुक्तम् ॥
इदानीं शाकादिद्वीपानां स्वसंज्ञया अर्थवत्तां
वक्ति
शाके शाकद्रुमस्त्वङ्गः
शाकसंज्ञानिबन्धनः ॥ ९८ ॥
कुशोऽभूत्काञ्चनः कौशे
स्वयंभुवि यियक्षति ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते। ३११
क्रौञ्चे क्रौञ्चो हतो दैत्यः
क्रौञ्चाद्रौ हेमकन्दरे ॥ ९९ ॥
स्कन्देन युद्ध्वा सुचिरं
चित्रमायी सुमायिना ।
स शैलस्तस्य दैत्यस्य
ख्यातश्चित्रेण कर्मणा ॥१००॥
केतुतामगमत्तस्य
नाम्ना क्रौञ्चं तदुच्यते ।
शाकद्वीपे शाकाख्यो वृक्ष उन्नतः शाका-
ख्याहेतुः । ब्रह्मणि यष्टुमिच्छति हेमकुशोत्पत्तिः।
कौशे द्वीपे कुशसंज्ञाकारणम् । क्रौञ्चे द्वीपे
काञ्चनकन्दरं, क्रौञ्चाद्रौ युध्यमानः क्रौञ्चाख्यो
दैत्यः कार्त्तिकेयेन हतः इति क्रौञ्चोपलक्षित-
त्वात् क्रौञ्चद्वीपसंज्ञा ॥
शाल्मले शाल्मलीवृक्षो
हैमः साहस्त्रिकोऽर्कभाः ॥१०१॥
प्रियोऽमराणां तत्केतुः
स तदाख्यानिबन्धनः ।
३१२ मृगेन्द्रतन्त्रे । [ २।१३
सहस्रयोजनोन्नतः सूर्यद्युतिः शाल्मलीवृक्षः
शाल्मलिद्वीपे, अस्याख्या निबन्धनं स्थानम् ॥
गोमेदे गोपतिर्नाम
राजाभूद्गोसवोद्यतः ॥ १०२ ॥
याज्योऽभूद्वह्निकल्पाना-
मौतथ्यानां मनोः कुले ।
स तेषु हरियज्ञाय
प्रवृत्तेषु भृगून् गुरून् ॥१०३॥
वव्रे तं गौतमः कोपा-
दशपदगमत्क्षयम् ।
यज्ञवाटेऽस्य ता गावो
दग्धाः कोपाग्निना मुनेः॥१०४
तन्मेदसा मही छन्ना
गोमेदः स ततोऽभवत् ।
गोसवाख्ययज्ञकृत् गोपतिसंज्ञो राजा मनु-
वंश्यः उतथ्यवंश्यानामग्निवत्तेजस्विनामौतथ्या-
नां याज्योऽभूत् । तेषु औतथ्येषु इन्द्रयज्ञार्थं
गतेषु भृगून् गुरुत्वेऽवृणीत सः । गावो गौत-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१३
मक्रोधाग्निना दग्धाः तन्मेदश्छन्नभूतलत्वात्
गोमेदसंज्ञो द्वीपः ॥
नदी पुष्करिणी नाम
हेमपुष्करमण्डिता ॥ १०५ ॥
तया स पुष्करद्वीपः
ख्यापितः सुरसेवितः ।
हेमाब्जया पुष्करिण्याख्यया नद्योपलक्षितो
देवजुष्टः पुष्करद्वीपः ॥
यथा किंपुरुषाद्येषु
कृतावासः सदा जनः ॥१०६॥
शाकद्वीपादिषु तथा
क्षीरादिकृतभोजनः ।
हिमेन्दुहिमनीलाब्ज-
सस्यकस्फटिकद्युतिः ॥ १०७ ॥
दशवर्षसहस्रायु-
र्नष्टदुःखैककण्टकः ।
किंपुरुषादिषु वर्षेषु यद्वत्त्रेतादियुगेष्वपि
कृतयुगावस्थो जनः, तथा शाकादिद्वीपेषु क्षी-
४०
३१४ मृगेन्द्रतन्त्रे । [ २।१३
राद्याहारो यथाक्रमं तुहिनचन्द्रादिकान्तिर्दश-
वर्षसहस्रजीवी दुःखाख्यमहाकण्टकनिर्मुक्तो
ज्ञेयः ॥
सप्तमादुदधेर्वाक्
द्वे कोटी सत्रिकं दलम् ॥ १०८ ॥
पञ्चाशच्च सहस्राणि
कर्णाद्धेमाद्रिगर्भतः ।
सप्तमादुदधेर्वागिति मेर्वाभिमुख्येन तस्यैव
मेरोर्गर्भतः, तन्मध्यभागादारभ्य कर्णादिति
विष्कम्भशैलानामन्तरालभागादिलावृतवर्षज-
नितकोणात् कोटिद्वय, त्रिकेण सहितं दलं
कोट्यर्धत्रिपञ्चाशल्लक्षाणि सहस्रपञ्चाशत्प्रमा-
णम् ॥
ततो हिरण्मयी भूमि-
र्नानारत्नद्रुमाचला ॥ १०९ ॥
क्रीडार्थं वेधसा सृष्टा
देवानां दशकोटिकी ।
विविधानि रत्नानि द्रुमाश्चाद्रयश्च यस्यां सा
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१५
तादृक् । सुराणां विहरणाय हेममयी योजन-
कोटिदशकप्रमाणा भूर्धात्रा निर्मिता ॥
लोकालोको बहिस्तस्या
लोकालोकनियामकः ॥ ११० ॥
योजनायुतविष्कम्भ-
स्तुङ्गशृङ्गपरिच्छदः ।
अन्तःस्थितं लोकं बहिःस्थितं चालोकं
नियमयतीति लोकालोकनियामकः, तद्वाह्ये
लोकाभाव इत्यर्थः । योजनायुतविष्कम्भ इति
दशसहस्रविस्तारः । अत्युच्छ्रितशृङ्गपरिवारः ।
तस्य शृङ्गेषु तीक्ष्णांशो-
र्भासश्चन्द्रातपोपमाः ॥ १११ ॥
न तापयति वैकृष्ट्या-
द्धामान्याशाभृतां मुने ।
लोकालोकस्याद्रेरत्युन्नतत्वात् शिखरस्थानि
लोकपालविहरणगृहाणि अर्कभाभिर्विप्रकृष्ट-
त्वात् ज्योत्स्नावदालोकमात्रहेतुभिर्न ताप्यन्ते ॥
तमः परस्तान्निबिडं
लक्षाण्येकोनविंशतिः ॥ ११२॥
३१६ मृगेन्द्रतन्त्रे । [ ११३
चत्वारिंशत्सहस्राणि
पञ्चत्रिंशच्च कोटयः ।
सप्तविंशतिलक्षाणि
कोटिश्चैका समुद्रराट् ॥११३॥
हैमं कटाहकं कोटि-
गर्भादेति समन्ततः ।
लोकालोकस्य बहिस्तमः अन्धकारं पञ्च-
त्रिंशत्कोटयः एकोनविंशतिलक्षाणि सहस्रच-
त्वारिंशता सह, तद्बाह्ये तु गर्भोदाख्योऽब्धि-
राजो योजनकोट्या सप्तविंशत्या च लक्षैर्वि-
स्तीर्णः, तस्यापि बहिः कोटिप्रमाणं काञ्चनं
कटाहमिति कोटिशतप्रविभागः ॥
एवं भूर्लोकस्य विस्तारात्प्रमाणमुक्त्वा भुव-
र्लोकादिलोकषट्कस्योच्छ्रायमानमाह
तिथिलक्षो भुवर्लोको
ध्रुवे प्रान्तो महीतलात् ॥११४
तदूनकोटिस्वर्लोक-
स्वर्गीवर्यसमाश्रयः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१७
महर्द्विकोटीर्यत्रास्ते
मरीच्यादिमुनिव्रजः ॥ ११५॥
जनोऽष्टकोट्यवच्छिन्नः
पितृबहुजनाश्रयः ।
तपोऽर्ककोटिर्यत्रास्ते
महायोगी सनन्दनः ॥ ११६ ॥
ऋभुः सनत्कुमारश्च
सनकश्च महातपाः ।
ततः सत्याधिपस्थानं
सत्यलोकः स्वयम्भुवः ॥११७॥
कामातिशयसंपन्नः
कोटयो नव सप्त च ।
सावित्री मूर्तिमत्यास्ते
यत्र वेदाश्च सानुगाः ॥ ११८ ॥
महीतलात् भूपृष्ठादारभ्य ध्रुवप्रान्त इति
ज्योतिश्चक्रावलम्बनभूतध्रुवपर्यन्तपञ्चदशल-
क्षोच्छ्रायो भुवर्लोकः । पञ्चाशीतिलक्षोच्छ्राय-
स्वर्गिवर्याणां स्वर्वासिमुख्यानामास्पदं स्व-
३१८ मृगेन्द्रतन्त्रे । [ ११३
लोकः । महर्लोको मरीच्यादिमुनिवृन्दस्थानं
द्विकोटिः । जनलोकस्तु अष्टकोटिपरिच्छिन्नः
पितॄणां जह्नुप्रभृतीनां च मुनीनां निवासः ।
तपोलोको द्वादशकोट्युच्छ्रायः सनन्दऋभु-
सनत्कुमारसनकाद्याश्रयः। ततोऽनन्तरं सत्यैक-
बुद्धित्वात् सप्तकल्पाधिपत्यस्य ब्रह्मणः स्थानम् ।
सकलैश्वर्यसंपत्तिमान् षोडशकोट्यच्छ्रितः सत्य-
लोकः, यस्मिन् मूर्तिमती सावित्री वेदोपवे-
दाश्चासते ॥ ११८ ॥
ततश्चतस्रः षट् चेति
मधुत्रिपुरविद्विषोः ।
स्थाने ज्योतिषमतीचित्रे
कोटिरण्डकटाहकः ॥ ११९॥
शतकोटिप्रविस्तीर्ण
इति ब्रह्माण्डगोलकः ।
भूयसा तुल्य एवायं
सर्वस्रोतःसमानतः ॥ १२० ॥
तदुपरि चतस्रः कोटयो मधुविद्विषः वि-
ष्णोः कान्तिमत्स्थानम् । त्रिपुरविद्विषः शंभोः
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१९
तादृक् विचित्रं षट्कोट्युच्छ्रायकम् । अण्डक-
टाहकश्च एककोटिः । इत्थं भूर्लोकादयो यथा
पञ्चाशद्योजनकोटयः । तथा तदूर्ध्वं पञ्चाश-
देवेति । ब्रह्माण्डपिण्डः शतकोटिविस्तारो-
च्छ्रायः । अयं च सर्वेषूर्ध्वपूर्वदक्षिणपश्चिमोत्त-
रेषु स्रोतःसु प्रायेण तुल्यमानाकृतिः ॥१२०॥
तस्य प्राचीं दिशं शक्रः
पात्यग्निः पूर्वदक्षिणाम् ।
दक्षिणां भूतसंहर्ता
रक्षसो दक्षणापराम् ॥ १२१ ॥
पश्चिमां वरुणो देवो
नभस्वान् पश्चिमोत्तराम् ।
उदीचीं सोमपक्षेशा-
वीशः प्रागुत्तरां दिशम् ॥१२२॥
ऊर्ध्वं ब्रह्मा हरिरधः
सर्वार्थावहिताः सदा ।
तस्य ब्रह्माण्डस्य प्राच्यादिदिक्पालका इ-
न्द्रादयः । उदीच्यां सोमवैश्रवणौ । ऊर्ध्वं ब्रह्मा
३२० मृगेन्द्रतन्त्रे । [ ११३
पालकः स्थितः, अधस्तु विष्णुः, एते च नित्यं
सर्वात्मना सावधानाः स्थिताः ॥
एषामपि नियन्तारो
रुद्रा दश दश स्थिताः ॥१२३॥
भूतिमन्तोऽप्यमी येषां
नोत्क्रामन्ति भयात्पदम् ।
नानारूपैर्महावीर्यै-
स्तरुणार्कसमप्रभैः ॥ १२४ ॥
वृता नानायुधधरै-
र्नामभिस्तान्निबोध मे ।
एषां लोकपालानां रुद्रा अधिष्ठातारः प्रति-
दिशं दश दश स्थिताः, यद्भीत्या महैश्वर्यैर्युक्ता
अपि एते स्वं स्वं स्थानं पालकत्वेन नोज्झन्ति ।
एते चानेकाकारैः विचित्रायुधैरतिबलैर्बालार्क-
कान्तिभिरनुचरैर्वृताः ॥
अथैषां नामान्याह
बुभ्रुवज्रशरीराज-
कपालीशप्रमर्दनाः ॥ १२५॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२१
प्राग्विभूत्यव्ययौ शास्ता
पिनाकी त्रिदशाधिपाः ।
एते शक्रस्य नियन्तारः ॥
अथाग्नेः
भस्मक्षयान्तकहर-
ज्वलनाग्निहुताशनाः ॥ १२६ ॥
पिङ्गलः खादको बभ्रु-
र्दहनश्चाग्निदिग्गताः ।
विधातृधातृकर्त्रीश-
कालमृत्युवियोजकाः ॥ १२७॥
याम्यधर्मेशसंयोक्तृ-
हराश्च यमनायकाः ।
निर्ऋत्यधिपतीनाह
निर्ऋतिर्मारणक्रोध-
हन्तृधूम्रविलोहिताः ॥ १२८ ॥
ऊर्ध्वलिङ्गविरूपाक्ष-
दंष्ट्रिभीमाः पलादपाः ।
४१
३२२ मृगेन्द्रतन्त्रे । [ ११३
पलं मांसमत्तीति पलादः पिशिताशनो
रक्षसो निर्ऋतिः, तं पान्तीति पलादपाः ॥
अथ वरुणेश्वराः
बलातिबलपाशाङ्क-
श्वेतभूतजलान्तकाः ॥ १२९ ॥
महाबलमहाबाहु-
सुनाद्यब्दरवाः कपाः ।
अब्दरवो मेघनादः । कं जलं पान्ति इति
कपाः ॥
वाय्वधिपा उच्यन्ते ।
लघुशीघ्रमहद्वेग-
सूक्ष्मतीक्ष्णक्षयान्तकाः ॥ १३० ॥
कपर्द्यब्देशपञ्चान्त-
पञ्चचूडाश्च वायुपाः ।
निधीशो रूपवान् धन्य-
सौम्यशान्तजटाधराः ॥ १३१ ॥
कामप्रसादलक्ष्मीश-
प्रकाशाश्चेन्दुयक्षपाः ।