सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

दित्येकैकस्मिन् योज्यम् । तत्र हृदि तद्धर्मस्यौ-
ष्ण्यस्य, पक्तौ तद्धर्मस्य पाकस्य, दृशोः प्रका-
शस्य, पित्ते च संतापौज्वल्यादेरुपलम्भात् तेजः
संनिविष्टम् । प्राणापानादिवृत्तिभेदेन वायुर्यथा
अवस्थानावस्थितः, तथाच तवोक्तमेवेति वक्ता
श्रोतारं भरद्वाजं मुनिं स्मारयति । यदुक्तं प्राक्
'वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते ।' (११।२२)
इति । सर्वासु च नाडीषु आकाशं गर्ववृत्त्यनु-
षङ्गेणेति अहंकारव्यापारानुषङ्गात् स्थितम् ॥
इदानीं ततः कलादिक्षित्यन्ततत्त्वव्रातं सू-
क्ष्मदेहारम्भकत्वेन वक्तुमाह
प्रयोक्त्र्यादिमहीप्रान्त-
मेतदण्वर्थसाधनम् ॥ ३२ ॥
प्रत्यात्मनियतं भोग-
भेदतो व्यवसीयते ।
प्रयोजयति क्रियाशक्त्युत्तेजनेन पुमांसमि-
ति प्रयोक्त्री कला, तदादि क्षित्यन्तं च एतत्
तत्त्ववृन्दं पुमर्थसाधनमेकैकस्यात्मनो नियतम-
साधारणं भोगभेदात्प्रतीयते साधारणत्वे भो-
३४

२६६ मृगेन्द्रतन्त्रे । [ १।१२
गभेदानुपपत्तेः । ननु भोगभेदे कर्मणो निमि-
त्तत्वमित्युक्तम् । सत्यं, किंतु न साक्षात्, अपि-
तु पारम्पर्येण । तथाहि कर्मकृतस्तत्तच्छरीर-
भेदः, तद्भेदकृतं च भोगवैचित्र्यमित्यदोषः ।
स तु भोगभेदः करिनरतुरगादिभेदभिन्नः सू-
क्ष्मशरीरवैचित्र्यं विना न भवति,-इति अत्रापि
कर्मण एव हेतुतेति न कश्चिद्दोषः ॥
एतच्च सूक्ष्मशरीरं
सर्वतो युगपद्वृत्ते-
रनुत्पादादसर्वगम् ॥ ३३ ॥
भिन्नजातीयमप्येक-
फलं दीपाङ्गवस्तुवत् ।
यद्येतत् सर्वगं विभु स्यात्, तत् सर्वत्र यौग-
पद्येन वृत्त्युत्पादो भवेत् । नचैवं, यावता क्व-
चिदेकदेश एव एतद्वृत्तेः कर्मफलोपभोगलक्ष-
णायाः समुत्पादः। भिन्नजातीयमनेककलादिप्र-
त्युद्भूतमपिच एतत् दीपाङ्गवस्तुवत् एकफलम्।
यथा भिन्नकारणजन्यतैलपात्रवह्निवर्त्यादिवस्तु
तमोनिवृत्तिलक्षणैकार्थसाधकम्, एवं तन्मा-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २६७
त्रमहदहंकारकलाव्युद्भवमप्येतत् कर्मोपभोग-
फलं ज्ञेयम् ॥
अथ व्याख्यातार्थोपसंहाराय प्रकरणान्त-
रोपक्रमाय च श्लोकः
इत्यातिवाहिकमिदं वपुरस्य जन्तो-
श्चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् ।
नैतावतालमिति भौवनतत्त्वपङ्कि-
माधारदेहविषयाभ्युदयाय वक्ष्ये ३४
इत्थमिदमस्य संसारिणो जन्तोरतिवाहयति
अवश्यं भोग्यं कर्मेति आतिवाहिकं वपुर्लेशात्
संक्षेपात् उक्तमिति शेषः। कीदृशम्। चित्सङ्गात्
चित्संश्लेषवशात् चित्, अचिदपि चैतन्यावियु-
क्तत्वात् चिद्रूपमित्यर्थः । गहनं माया, तद्गर्भे
विवर्तते तच्छीलमिति गहनगर्भविवर्ति । एता-
वता च न पर्याप्तमिति कृत्वा भोग्याश्रयभूतां
भौवनतत्त्वपङ्क्तिं वक्ष्ये । किमर्थमित्याह अधार-
देहविषयाभ्युदयाय, सूक्ष्मशरीरस्याधारो यो
भौतिको देहस्तस्य यो वैषयिकोऽभ्युदयः स्र-
क्चन्दनाद्युपभोगस्वरूपः तदर्थम्, यद्वा आधारः

:
Let's transcribe line by line:

Line 1 (Header):
२६८ मृगेन्द्रतन्त्रे । [ १।१२ (or [ १।२ or [ ११२)
Wait, let's look at the spacing and characters:
२६८
मृगेन्द्रतन्त्रे ।
[ १।१२ - wait, writing [ १।१२ is the most faithful and sensible reading of that section marker (Vidyāpāda 1, Prakaraṇa 12). Even if the १ is faint or merged with the danda, or if it is [ १।१२, it clearly denotes [ १।१२. Wait, could it be [ १।१२? Yes!

Let's check Line 2:
आश्रयः, देहः स्थूलः, तत्तद्भुवनजा विषयाः
Wait, look at the comma:
आश्रयः, देहः स्थूलः, तत्तद्भुवनजा विषयाः
Wait, is there a comma after आश्रयः?
Yes, आश्रयः,
Then देहः स्थूलः,
Then तत्तद्भुवनजा (तत्तद्भुवनजा - त, त, द्भ, ु, व, न, जा)

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( त्रयोदशः पटलः )
‘अथोक्तार्थप्रसिद्ध्यर्थम्’ इत्यादिना भुवना-
दिवर्णनं प्राक्तनप्रकरणान्तसूचितं ससंबन्धप्र-
योजनं प्रस्तौति
अथोक्तार्थप्रसिद्ध्यर्थं
भुवनादि विनिर्ममे ।
साधारणेभ्यो योनिभ्यः
कलादिभ्यो महेश्वरः ॥ १ ॥
अथेति अशुद्धात्मनां निरतिशयश्रेयःप्रति-
बन्धककर्मपाशप्रशमाय तत्तद्भोगसाधनतनुक-
रणभुवनसिसृक्षानन्तरं महेश्वरोऽनन्तेशनाथः
उक्तस्य संसार्यणोर्भोगलक्षणस्यार्थस्य प्रकर्षेण
साकल्येन सिद्ध्यर्थं निष्पादनाय साधारणाभ्यः
कलादिभ्यः प्रकृतिभ्यो भुवनादि रचयाञ्चक्रे ।

२७० मृगेन्द्रतन्त्रे । [ १।१३
रचना चैषा न प्रागभाववतामुत्पत्तिः, अपितु
सत्कार्यवादप्रकरणोक्तवत् शक्त्यात्मना स्थि-
तानां व्यक्तरूपतया स्वकारणादभिव्यक्तिः ॥१॥
तानि कालानलादीनि
कलाप्रान्तानि मण्डलम् ।
संसारमिति तत्त्वज्ञा
भोगस्थानं प्रचक्षते ॥ २ ॥
तानि च कालाग्निभुवनादीनि कलाभुव-
नान्तानि । एतच्च भोगस्थानं संसारमण्डलं प-
रमार्थविदः कथयन्ति । प्राक्प्रोक्तं सकलं भोग्यं
भुवनजातं कलादिभ्यो योनिभ्यो जायते,
नतु मायातस्तस्याः श्रीमत्स्वायंभुवादावकार्यत्व-
श्रुतेः, संनिवेशवतीत्वे भोग्यत्वाभ्युपगमे च
भोग्यस्य संनिवेशवतो घटादेरिवानित्यत्वप्र-
संगभयादसंनिवेशवतीत्वं, अभोग्यत्वं चावश्य-
मङ्गीकार्यम् ॥ २ ॥
ननु पुंसो माया यद्यभोग्या, तर्हि तत्कार्य-
व्यतिरेकेणान्यस्य भोग्यस्यासंभवान्न किंचि-
द्भोग्यमित्यभोक्तैव पुरुषः प्रसक्तः । सत्यम्,

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७१
किंतु कार्यं तदीयं व्यक्तरूपतया अवस्थितं स-
दस्य भोग्यम्, नत्वसौ शक्तिमात्ररूपत्वात्तस्या
इति उक्तम् ॥ २ ॥
यद्येवं तद्गर्भे तत्तद्भुवनविशेषश्रुतेर्भुवनानां
च संनिवेशविशिष्टतां विना भुवनत्वायोगा-
न्मायातत्त्वस्यापि संनिवेशवत्त्वं प्रसक्तमित्याह
मायायामपि पठ्यन्ते
गहनेशादयोऽधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां
सर्वं तत्कृतिमस्तके ॥ ३ ॥
नित्यत्वव्यापकत्वादि-
श्रवणादवसीयते ।
दृष्टं पुरादि यद्भोग्यं
मूर्तं प्रलयधर्मि च ॥ ४ ॥
यद्यपि मायातत्त्वे मण्डलेश्वर—गहनेश्वरा-
दयो रुद्राः भुवनाधिवासिनः पठ्यन्ते, यद्व-
क्ष्यति
‘ध्रुवतेजोऽधिपौ रुद्रौ गहनेशश्च सर्वराट् ।
मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः ॥’ (१३।१५४)

२७२ मृगेन्द्रतन्त्रे । [ १।१३
इति, दीक्षायामपि तत्त्वशुद्धिर्मायातत्त्वस्थत्वेन
यद्यपि क्रियापादेऽभिधास्यते, तथापि न तत्
तस्याः संनिवेशविशिष्टतामापादयति, किं तु
तानि तत्तत्तत्त्वस्थत्वेनोक्तानि भुवनानि, तन्नि-
वासिनश्च मण्डलेश्वरा इत्येतत्सर्वं तत्कृतेः त-
त्कार्यभूतायाः कलाया मस्तके ज्ञेयम्, शक्ति-
रूपाया मायायाः प्रथमा व्यक्तिः कला, तन्मूर्-
र्धन्येतत्सर्वं स्थितमित्यर्थः । कुत एतज्ज्ञायत
इत्याह 'नित्यत्वव्यापकत्वादि' इत्यादि, यतो
नित्यत्वं व्यापकत्वं चास्याः प्रागुपपादित-
मागमेषु श्रूयते । यदिच भुवनगर्भत्वमस्याः,
तदा संनिवेशवती स्यात् । तथाच सति अ-
व्यापिका विनश्वरी च भवेत् । अत्रापि हेतु-
माह 'दृष्टं पुरादि' इत्यादि, यत् यस्मात्कारणात्
दृष्टं दृश्यमानं च पुरप्राकारादि यत्, तत् भो-
ग्यत्वे सति मूर्तं प्रलयधर्मि च दृष्टम् । अस्याश्च
संनिवेशवन्ति भुवनानि गर्भे स्थितानि । भो-
ग्यत्वं च यदि साक्षादङ्गीक्रियते, तदा मूर्तत्वं
विनश्वरत्वं च प्रसज्यते इति तत्कार्यस्यैव क-
लादेर्व्यक्तरूपस्य भुवनयोगित्वमिति न कश्चि-
द्दोषः ॥ ४ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७३
एष एव च न्यायो महामायाख्यायां शुद्ध-
विद्यायामपि अनुसर्तव्य इत्याह
शुद्धाध्वन्यपि मायायाः
परस्याः पतयः कृतौ ।
ये तस्यामपि पठ्यन्ते
तेऽपि तत्कृतिमस्तके ॥ ५ ॥
शुद्धेऽध्वनि परस्याः शुद्धविद्याख्याया मा-
याव्यपदेशः । तथाचोक्तं श्रीमद्रौरवे
'मायोपरि महामाया.....................।'
इति । तत्र कृतौ करणीये स्वे स्वेऽधिकारे ये-
ऽधिकृताः, तेऽपि तत्कार्यमूर्धनि श्रीमन्मतङ्गा-
द्युक्तक्रमेण स्थिता अवगन्तव्याः ॥ ५ ॥
इदानीमधस्तादूर्ध्वैकदेशवर्तिनो ब्रह्माण्डस्य
विस्तारोच्छ्रायौ तद्गतभुवनप्रमाणं च वक्तुं, यो-
जनप्रमाणं परमाण्वादिक्रमेण वर्णयति
रजो विलोक्यते तिर्य-
ग्जालाविष्टार्करोचिषाम् ।
तदष्टाष्टगुणस्थाने
तृतीये स्यात्कचाग्रकम् ॥ ६ ॥
३५

२७४ मृगेन्द्रतन्त्रे । [ ११।३
लिक्षा यूका यवोऽप्येव-
मङ्गुलं तत्त्रिसंगुणैः ।
तैरेव गुणितं पाणि-
र्धनुस्तद्वेदलक्षितम् ॥ ७ ॥
दण्डो द्वे धनुषी ज्ञेयः
क्रोशस्तद्विसहस्रकम् ।
द्विक्रोशमाहुर्गव्यूतिं
द्विगव्यूतिं च योजनम् ॥ ८ ॥
कपालमर्बुदं स्थौल्या-
द्ब्रह्मणोऽण्डस्य योजनैः ।
आदित्यभासां तिर्यग्जालान्तरप्रविष्टानां
सतां सूक्ष्मतमं यद्रजो दृश्यते, तदष्टगुणीकृत्य
तत्प्रमाणं, पुनरष्टगुणितं कार्यं यावत्तृतीये
स्थाने कचाग्रकं नाम प्रमाणं भवति । उक्तं
च श्रीमत्स्वतन्त्रे
'अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुस्तदाख्यातस्तत्पद्मरज उच्यते ॥
त्रसरेण्वष्टकं देवि बालाग्रं तद्विधीयते ।' (१०।१७)
इति । तैरष्टभिः कचाग्रैर्लिक्षा । तदष्टकेन यूका ।

ताभिरष्टाभिर्यवो ज्ञेयः। एवमिति यवाष्टकेना-
ङ्गुलम्। तन्त्रिंसंगुणितैस्तैरेव गुणितं पाणिः, तद्-
ङ्गुलं तैरेवेत्यष्टभिस्त्रिगुणितैश्चतुर्विंशत्यङ्गुलैर्गु-
णितं सत् पाणिः हस्तो भवति । वेदशब्दस्य
चतुःसंख्यालक्षकत्वात् तेषां पाणीनां चतुष्केन
लक्षितं धनुःसंज्ञं प्रमाणं बोद्धव्यम् । धनुर्द्व-
येन दण्डः, दण्डसहस्रद्वयेन क्रोशः, क्रोश-
द्वयेन गव्यूतिः, तद्द्वयं च योजनम् । एषां
योजनानामर्बुदं कोटिविस्तृतं ब्रह्माण्डकपालं
ज्ञेयम् ॥
तस्यान्तः काञ्चनं धाम
कालाग्नेस्तावदेव हि ॥ ९ ॥
यत्रान्तकालतीक्ष्णांशु-
कोटितेजास्तथाविधैः ।
रुद्रैरास्ते वृतो देवः
कालाग्निरिति विश्रुतः ॥१०॥
सर्वाध्ववर्तिभूतानां
यस्मिन्नुद्वृत्ततेजसि ।

२७६ मृगेन्द्रतन्त्रे । [११३
भयमुत्पद्यते शक्त्या
संहर्त्र्या चोदिते प्रभोः ॥११॥
तस्येति ब्रह्माण्डस्य अन्तः कालाग्नेः सौवर्णं
गृहं कोटिः । यत्र गृहे कल्पान्तार्ककोटिसम-
दीप्तिस्तथाविधानेकरुद्रावृतः कालाग्निस्तिष्ठति।
यस्मिन् पारमेश्वर्या संहर्त्र्याख्यया शक्त्या क्ष-
याय प्रेरिते उद्दीपिते तेजसि समस्ताध्ववर्तिनां
भूतानां त्रासः संजायते ॥ ११ ॥
तस्य स्वभावतो ज्वालाः
प्रवृत्ता दशकोटयः ।
योजनानां तदर्धेन
धूमः सान्द्रः सुदारुणः ॥ १२ ॥
प्रकृत्या तज्वाला दशकोटिप्रमाणाः । धूमः
पञ्च कोट्यः सान्द्रो घनो दारुणो दुःसहः ॥१२॥
ततः पुटास्त्रयस्त्रिंश-
दशलक्षोनकोटिकाः ।
तदन्तराणि द्वात्रिंश-
ल्लक्षकाणि दुरात्मनाम् ॥ १३ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३७५
स्थानानि यातनाहेतो-
र्निर्मितान्यध्ववेधसा ।
ततोऽनन्तरं नाकविस्ताररूपाः त्रयस्त्रिंश-
त्पुटाः प्रत्येकं नवतिलक्षाणि । तदन्तराणि द्वा-
त्रिंशत्, तेभ्य एकैकं लक्षप्रमाणम् । एतानि पा-
पीयसां यातनार्थं कृतान्यध्ववेधसा भुवनाध्व-
स्रष्ट्रा अनन्तेशेन ॥
तानि ते नामभिर्वक्ष्ये
द्विजमुख्य निबोध मे ॥ १४ ॥
रौरवध्वान्तशीतोष्ण-
संतापाब्जमहाम्बुजाः ।
कालसूत्राष्टमा ह्येते
नरका इति विश्रुताः ॥ १५ ॥
अथ महानरकाणामष्टानां संज्ञाः
सूच्यास्यकालखड्गाख्य-
क्षुरधाराम्बरीषकाः ।
तप्ताङ्गारा महादाहाः
संतापाश्चेति ये मुने ॥ १६ ॥

२७८ मृगेन्द्रतन्त्रे । [ १।१३ ·
भवन्त्यष्टौ सुबीभत्सा
महाशब्दपदानुगाः ।
सुबीभत्साः अतिभयानकाः । महाशब्दस्य
पदं नरकमित्याख्यारूपमनुगतं येषां, महानरक-
संज्ञा इत्यर्थः ॥
अथ नरकराजाष्टकं
लाक्षाप्रलेपमांसाद्-
निरुच्छ्वासनसोच्छ्वसाः ॥ १७॥
युग्माद्रिशाल्मलीलोह-
प्रदीप्तक्षुत्पिपासकाः ।
कृमीणां निचयश्चेति
राजानः परिकीर्तिताः ॥१८॥
अथ लोहस्तम्भेत्यादिना राजराजेश्वराष्टक-
संज्ञा उच्यन्ते
लोहस्तम्भोऽथ विण्मूत्र-
स्तथा वैतरणी नदी ।
तामिस्रश्चान्धतामिस्रः
कुम्भीपाकः सरौरवः ॥ १९ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७९
महापदानुगोऽवीची
राजराजेश्वरेश्वराः ।
अथैषां पुटानां सान्तरालानां संख्यां कल-
यितुमाह :
एषां पुटानां नरकैः
सार्धं योजनसंख्यया ॥ २० ॥
भवन्ति कोटयस्त्रिंशद्
द्वे च लक्षे द्विजोत्तम ।
त्रिंशद्योजनकोटयो लक्षद्वयं चेति त्रयस्त्रिं-
शत्पुटानां सान्तरालानां प्रमाणम् ॥
ततस्त्रिंशत्सहस्राणि
त्यक्त्वा भूर्नवलाक्षिकी ॥ २१ ॥
भवत्ययोमय्यर्धेन
पूर्वेणार्धेन काञ्चनी ।
ततोऽनन्तरं त्रिंशत्सहस्राणि योजनानां
त्यक्त्वा नवलक्षप्रमाणा भूः पूर्वेणार्धेन हेम-
मयी, अपरेण तु अयोमयी ॥

२६४ मृगेन्द्रतन्त्रे । [ ११३
योऽप्यधस्तात्पुटस्तस्या
मृदर्धं चार्धमायसम् ॥ २२ ॥
तत्र द्वात्रिंशतोऽमीषां
निरयाणां पतिः स्थितः ।
कूष्माण्ड इति विख्यातः
प्रलयार्कानलद्युतिः ॥ २३ ॥
करालवदनः क्रुद्धो
वृत्तकोटरलोचनः ।
टङ्कपाणिस्तथाभूतै-
र्भूतैर्भूयोभिरावृतः ॥ २४ ॥
अनन्तरोक्ताया नवलाक्षिक्याः भुवो हेमा-
त्पुटादधःस्थो योऽयोमयः पुटः, तस्याप्यर्धं पार्थि-
वम्, अर्धं तु आयसम् । तत्र चामीषां प्रागु-
क्तानां नरकाणां द्वात्रिंशत ईशः कूष्माण्डाख्यः
करालवदनत्वादिविशेषणविशिष्टस्तथाविधैर्भू-
तैः परिवृत आस्ते । वृत्तकोटराणि परिवर्तुलग-
र्भाणि सतारकत्वात् लोचनानि यस्य स एवम् ।
टङ्कः प्रागुक्तः परशुः ॥ २४ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २८१
अयोरुक्मपुटादूर्ध्व-
मष्टमीयं वसुन्धरा ।
साहस्त्राः षट् परा मध्या
व्यर्कलक्षत्रिकोटिकी ॥ २५ ॥
वसत्यो नवसाहस्राः
परा दशसहस्रिकी ।
तदासां सप्तकं सद्भिः
ख्यातं पातालसप्तकम् ॥२६॥
काञ्चनमायसं च यत् पुटद्वयमुक्तं, ततो-
ऽनन्तरमियं वसुन्धरा भूमिरष्टमी, यस्यां वय-
मास्थिताः । एतद्व्यतिरिक्ताश्च अन्याः षड्भूमयः
सहस्रप्रमाणाः । अस्यास्तासां च षण्णां या
मध्ये भवा मध्या सप्तमी भूमिः, सा वि-
गतद्वादशकललक्षकोटित्रयप्रमाणा, द्वे कोट्यौ
अष्टाशीतिश्च लक्षाणीत्यर्थः । एतस्य भूम्यष्ट-
कस्यान्तराले वसतयः आस्पदानि एकैकं नव-
सहस्रप्रमाणकानि । परेति ऊर्ध्ववर्तिनी या
वसतिर्वक्ष्यमाणसहस्रयोजनप्रमाणकाञ्चनास्प-
३६

२८२ मृगेन्द्रतन्त्रे । [ ११।३
द्हाटकेशाधिष्ठानभूता, सा दशसहस्रा । आसां
च वसतीनां सप्तकं, तत् सप्तपातालमिति
विद्वद्भिरुक्तम् ॥ २६ ॥
तन्नामतोऽधिपतित
उच्यमानं निबोध मे ।
आभासं परतालाख्यं
त्रितलं च गभस्तिमत् ॥ २७ ॥
महातलं रसाङ्कं च
पातालं सप्तमं मुने ।
इत्थं नामत उक्त्वा, अधिपतीन् कथयति
सप्तस्वेतेषु दैत्येन्द्र-
भुजङ्गक्षणदाचराः ॥ २८ ॥
सप्त सप्त समाख्याता-
स्तानप्यथ निबोध मे ।
एकैकस्मिन् दैत्येन्द्रो नागो राक्षसश्च ए-
तेषु सप्त सप्त कथिताः । तांश्चोच्यमानान् बु-
ध्यस्व ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २८३
दैत्याः शङ्कुश्रुतिः पूर्वे
प्रल्हादः शिशुपालकः ॥ २९ ॥
कर्कन्धको हिरण्याक्षो
बृहद्गर्भो बलिस्तथा ।
इति सप्तसु दैत्यसप्तकम् ॥
नागानाह
काद्रवेयाः कुटिलको
वासुकिः कम्बलस्तथा ॥ ३० ॥
कार्कोटकोऽथ कालाङ्गो
दुर्दर्शस्तक्षकस्तथा ।
कद्र्वा अपत्यानि काद्रवेयाः ॥
अथ नागानन्तरोपक्रान्तं रक्षःसप्तकं
विकटो लोहिताक्षश्च
यमाक्षो विकटाननः ॥ ३१ ॥
करालो भीमनिर्ह्रादः
पिङ्गलश्चेति राक्षसाः ।
अथ हाटकेशभुवनं

२८४ मृगेन्द्रतन्त्रे । [१।१३
तेषामुपरि निःशेष-
पातालाधिपतीश्वरः ॥ ३२ ॥
साहस्रे काञ्चने धाम-
मण्डले हाटकः स्थितः ।
यं स्तुवन्ति प्रियप्राप्त्यै
यता यतिविभूषणैः ॥ ३३ ॥
दैत्ययक्षासुराधीश-
ललना ललितैः पदैः ।
तेषां पातालानामूर्ध्वं तदीश्वरो हाटकेशः
स्थितः, यं भगवन्तं दानवगुह्यकदेवनागाङ्गनाः
सुन्दरैः स्तुतिपदैः स्तुवन्ति । कीदृशास्ताः
इत्याह यताः प्रयताः । किंभूतैः पदैः स्तुवन्ति,
यतिविभूषणैः, यतिर्द्रुतमध्यविलम्बितरूपा प-
रिपाटी, सैव भूषणं येषां स्तुतिपदानां तैर्गी-
त्यनुषक्तैश्चाटुभिराराधयन्तीत्यर्थः । किमर्थम्;
प्रियप्राप्त्यै यतस्ताः कामवशीकृताः ॥
ततः कोटिशतं पृथ्वी
नानाजनसमाश्रया ॥३४॥