सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( नवमः पटलः )
अथ सर्वज्ञवाक्येन
प्रतिपन्नस्य लक्षणम् ।
कथ्यते ग्रन्थिपाशस्य
किञ्चिद्युक्त्यापि लेशतः ॥ १ ॥
अथशब्दश्चानन्तर्ये, पाशपदार्थपरीक्षाधि-
कारे कर्मपाशविचारानन्तरं ग्रन्थ्यात्मनो मा-
याख्यस्य पाशस्य किञ्चित्संक्षिप्तं लक्षणं कथ्यते ।
अस्य चानन्तरप्रकरणोपसंहारे मायाशब्दोप-
क्षेपात्पाटलिकः संबन्धो ज्ञेयः । पदार्थादिसंब-
न्धचतुष्टयं तु प्रागुक्तम् । सर्वज्ञवाक्येन प्रति-
पन्नस्येति 'प्रावृतीशबले कर्म माया'(१।२।७)
इत्यादिना उद्देशसूत्रेण वक्तुमभ्युपगतस्य किञ्चि-
दिति नहि सकलं मायालक्षणं संक्षेपेणाप्य-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १८७
भिधातुं शक्यम् । तथा चोक्तं तत्रभवद्बृह-
पतिपादैः
'अपि सर्वसिद्धिवाचः क्षीयेरन्दीर्घकालमुदीर्णाः ।
मायायामानन्त्यान्नोच्येत स्रोतसां संख्या ॥'
इति। युक्त्यापि लेशत इति नागममात्रेण केव-
लेन, अपितु स्तोकादनुमानोपपन्नमपि तल्ल-
क्षणमुच्यत इत्यर्थः ॥ १ ॥
तदेकमशिवं बीजं
जगतश्चित्रशक्तिमत् ।
सहकार्यधिकारान्त-
संरोधि व्याप्यनश्वरम् ॥ २ ॥
तत् ग्रन्थितत्त्वमेकं परमकारणत्वादनेकत्वे
प्रमाणाभावाच्च, अशिवं मोहकत्वात्, बीजं
जगत इत्युपादानकारणं, विविधशक्तियुक्तं च
सहकारिणां कर्मणामधिकारान्तं यावत् संरु-
णद्धि अणून् बध्नाति तच्छीलमिति सहकार्य-
धिकारान्तसंरोधि कर्माभावे ग्रन्थितत्त्वस्याप्र-
वृत्तेः । व्यापि च तत् सर्वगतं स्वकार्यव्याप-
कत्वेन, अनश्वरं नित्यत्वात् महाप्रलयेऽपि

१८८ मृगेन्द्रतन्त्रे । [ ११९
आत्मवदीश्वरवच्च तस्यावस्थानात् । तदुक्तं
तत्त्वत्रयनिर्णये
‘शम्भुः पुरुषो माया नित्यं विभु कर्तृशक्तियुक्तं च ।
सुप्तेऽपि विकृतिजाते त्रितयं जागर्ति तत्त्वानाम् ॥’ (३ का०)
इति ॥ २ ॥
युक्त्यापि लेशत इत्युक्तमतस्तां युक्तिं
दर्शयति
कर्तानुमीयते येन
जगद्धर्मेण हेतुना ।
तेनोपादानमप्यस्ति
न पटस्तन्तुभिर्विना ॥ ३ ॥
संन्निवेशादिमत्त्वादुत्पत्तिमत्त्वं किल जगतः
कर्तारमनुमापयति । तेनैवोत्पत्तिधर्मकत्वेनोपा-
दानमप्यनुमीयते । नहि उत्पत्तिमत्तामुपादान-
कारणं विनोत्पत्तिर्दृष्टा यथा पटादेस्तन्त्वा-
द्यभावे ॥ ३ ॥
किंच
तदचेतनमेव स्या-
त्कार्यस्याचित्त्वदर्शनात् ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १८९
प्राप्तः सर्वहरो दोषः
कारणानियमोऽन्यथा ॥ ४ ॥
तच्च ग्रन्थितत्त्वमचेतनमचेतनस्यैव तत्का-
र्यस्य कलादेरुपलम्भात् , अन्यथेत्यचेतनतत्का-
र्योपलम्भेऽपि तस्य चेतनत्वाभ्युपगमे कारणा-
नियमलक्षणः सर्वहर इति सर्वानुमानोच्छेदकः
सकलव्यवहारहरः कोऽपि दोषः प्राप्तः ॥ ४ ॥
प्रागुद्दिष्टमविनश्वरत्वं व्यापित्वं च साध-
यितुं युक्तिमाह
यद्यनित्यमिदं कार्यं
कस्मादुत्पद्यते पुनः ।
अव्यापि चेत्कुतस्तत्स्या-
त्सर्वेषां सर्वतोमुखम् ॥ ५ ॥
जगत्संहारे यद्युपादानकारणस्य मायाख्य-
स्यापि नाशः स्यात् , तत्पुनः सर्गादौ कस्मादुपा-
दानाज्जगदुत्पद्यते । अतो नास्यानित्यत्वम् । अ-
थोच्यते सर्गादावुपादानमपि देवः स्रक्ष्यतीति ।
नैतद्युक्तम् , एवं हि सति तत्कार्यस्येव तस्याप्यु-

पादानं विनानुत्पत्तेरुपादानान्तरं परिकल्प्यं
तस्याप्यन्यदित्यनवस्था स्यात् । व्याह्युपसंहारेण
शक्तिरूपतया त्ववस्थाने न कश्चिद्दोषः । एवम-
स्याव्यापित्वे सर्वतोमुखस्य कार्यस्यानुत्पादः
स्यात् । अतो व्यापकत्वमवश्यमभ्युपेयम् ॥५॥
तथैकत्वे युक्त्युपन्यासः
यदनेकमचित्तत्तु
दृष्टमुत्पत्तिधर्मकम् ।
न तदुत्पत्तिमत्तस्मा-
देकमभ्युपगम्यताम् ॥ ६ ॥
यद्यदनेकमचेतनं, तत्तत् घटपटादिवदुत्प-
त्तिमत् दृष्टम् । इदं तु नोत्पत्तिमत् न कारणजन्यं
परमकारणत्वात् , अत एकम् । नहि परमकार-
णानि बहुलीभवन्तीति ॥ ६ ॥
ननु जगदुत्पत्तौ परपरिकल्पितपरमाण्वा-
दिवदुपादानकारणबहुत्वं यदि स्यात्, ततः
को दोषः । तथाहि
पटस्तन्तुगणादृष्टः
सर्वमेकमनेकतः ।

श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । १९१
बहुभ्योऽपि हि तन्तुभ्यः पटस्यैकस्योत्पत्ति-
र्दृष्टा। तद्वच्च जगत्सर्वमनेकस्मात्कारणादुत्पद्यतां,
किं ग्रन्थात्मकपरमकारणकल्पनयेति चोद्यम् ॥
अत्र परिहारः
तदप्यनेकमेकस्मा-
देव बीजात्प्रजायते ॥ ७ ॥
यत्तद्भवतानेकतन्त्वात्मकं कारणं पटस्योक्तं,
तदनेकमप्येकस्मात्तूलकार्पासादिद्रव्यादुत्पन्न-
त्वादेकम् । यथा चैकस्मात्तूलकार्पासादिद्रव्याद-
नेकाकारपटाद्युत्पत्तिः, एवं परमकारणात्सर्ग-
स्थितिलयाधाराख्यात्सर्गादौ मायातत्त्वाज्जगदु-
त्पत्तिरिति न कश्चिद्दोषः ॥ ७ ॥
परमात्मन एव सकाशाच्चिदचिदाविर्भाव-
तिरोभावाविति येषां पक्षस्तान्प्रतिक्षिपति
येषां चिद्धर्मकाद्धेतो-
रचिदप्युपजायते ।
तेषां धूमेन लिङ्गेन
जलं किं नानुमीयते ॥ ८ ॥
चित्स्वभावकाद्धेतोर्यैरचितामप्युद्भवोऽभ्युप-

  • दा - ना ? Wait:
    Look at रणतामभिदधाना:
    र - ण - ता - म - भि - द - धा - ना
    न
    ते
    वा - च्य - ता - म - र्ह - न्ति ।
    प - र - मा -
  1. Check everything line by line:
    Header: १९२ मृगेन्द्रतन्त्रे । [ ११९
    L1: गतः, तैर्धूमाज्जला‌नुमांनं किं न क्रियते कार्य-
    Wait, let's verify तैर्धूमाज्जला‌नुमांनं vs तैर्धूमाज्जला‌नुमानं.
    Is it तैर्धूमाज्जला‌नुमांनं? Yes, there is मां and नं. Let's keep तैर्धूमाज्जला‌नुमांनं.
    Wait, could नु be just न?
    No, it has the loop below.
    L2: कारणप्रतीतिनियमसंभवे सत्यतत्स्वभावादपि
    L3: तत्स्वभावस्योत्पत्तिप्राप्तेः । यथा न दृष्टा धूमा-
    L4: ल्लिङ्गात्कदाचिदपि जलप्राप्तिः, तथा ह्यचित्स्व-
    L5: भावस्य स्वविरुद्धाच्चित्स्वभावान्नोत्पत्तिर्दृष्टा । अ-
    L

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १९३
णूनां कैश्चित्परमाणुकतैव निषिद्धा षट्के युग-
पद्योगात् षडंशत्वस्यापरिहार्यत्वात् । किंच
आचैतन्ये सति अनेकत्वात् घटपटादिवत् ते-
षामपि कारणपूर्वकत्वेन भाव्यमिति च कुतः
परमकारणता। ततश्च न तत्प्रकृतिकत्वं जगतः॥
ननु यतस्तावन्मातापितृसंबन्धिभ्यो दे-
हेन्द्रियादिभ्यस्तत्तत्स्वसदृशशरीरकरणादि उ-
त्पद्यमानमुपलभ्यते, ततः किमदृष्टेन माया-
दिना कारणेन कॢप्तेनेत्याशङ्क्याह
शरीरादेः शरीरादि
यदि तन्निखिलात्यये ।
का वार्ता नाखिलध्वंसो
न सर्वज्ञो मृषा वदेत् ॥१०॥
मातापितृसंश्लेषशरीरेन्द्रियादिकारणकं ज-
न्तूनां शरीरेन्द्रियादि तद्भावे भावात्तदभावे
चाभावादिति यद्यभिमतं, तदस्तु, किंत्वेत-
त्प्रष्टव्यो भवान्-तन्निखिलात्यये सर्वसंहारे
देहेन्द्रियाद्युत्पत्तेः कीदृशी गतिः । अथ सक्रम
एव सर्वभावानां नाशः, नतु युगपत्सर्वसंहार
२५

१९४ मृगेन्द्रतन्त्रे । [ २१९
इत्युच्यते । तदयुक्तं श्रुतिस्मृतीतिहासपुराणा-
दिसदागमगीयमानस्य संहारस्यापह्नोतुमशक्य-
त्वात् । तदपह्नवे च प्रथमसृष्टिरपि नेष्टा । ततश्च
सृष्टिसंहारौ जगतो न संभवत इति ब्रुवाणः
सर्वज्ञतामेव जह्यात् ॥ १० ॥
अथ कथं संहाराभावमभिदधतो मिथ्या-
वादित्वमित्याह
एकदेशोऽपि यो धर्मः
प्रतीतो यस्य धर्मिणः ।
स तस्य सर्वतः केन
जायमानो निवार्यते ॥ ११ ॥
कोटिशो मरणं दृष्ट्वा
संहतानां शरीरिणाम् ।
सोऽपि प्रतीयते कालो
यत्राशेषजनक्षयः ॥ १२ ॥
सर्वज्ञेन हि स्वस्य वचसः प्रमाणोपपन्न-
तया परीक्षणं प्रतिज्ञातम् । यदाह
'तापाच्छेदान्निकर्षाच्च सुवर्णमिव सर्वतः ।
परीक्ष्य भिक्षवो ग्राह्यं मद्वचो नतु गौरवात् ॥'

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १९५
इति । इयंतु संहारसंभवे निर्बाधा तावदुप-
पत्तिः—यदुत यस्य धर्मिणो वह्न्यादेः काप्येकदेशे
धूमप्रकाशदाहादिधर्मो दृष्टः, स तस्य सर्वत्रो-
त्पद्यमानः केन निषिद्ध्यते, ततश्च दुर्भिक्ष-
मारीकृतभङ्गादिना एकदेशे जन्तुसंघातस्य क्र-
मिकां कोटिशो विपत्तिमुपलभ्य कृत्स्नजगत्सं-
हारकालः सदागमोदितोऽपि अनुमानेनो-
ल्लिख्यते ॥ १२ ॥
तदानीं च मायायामुपसंहृतानि सर्वका-
र्याण्यासन्नित्याह
तदाधाराणि कार्याणि
शक्तिरूपाणि संहृतौ ।
विवृतौ व्यक्तिरूपाणि
व्याप्रियन्तेऽर्थसिद्धये ॥१३॥
प्रागुक्ताभिरुपपत्तिभिर्नित्यत्वव्यापकत्वादि-
गुणयुक्तं यत्तु मायाख्यं कारणमुपपादितं, तदा-
श्रयाणि तनुकरणभुवनादीनि संहारकाले श-
क्तिरूपाण्यवतिष्ठन्ते । सृष्टौ तु व्यक्तिस्वरूपाणि
स्वस्वप्रयोजननिष्पत्तये सव्यापाराणि भवन्तीति
सर्वं सुस्थम् ॥ १३ ॥

१९६ मृगेन्द्रतन्त्रे । [ ११९
अत्र मुनिः सत्कार्यवादमसहमानः प्रश्नयति
तन्त्वादिकारकादानं
पटासत्त्वे पटार्थिनः ।
सत्त्वे कारकशब्दोऽपि
व्यपैतीति हतं जगत् ॥१४॥
साफल्यमसदुत्पत्ता-
वस्तु कारकवस्तुनः ।
यदेतच्छक्तिरूपतया मायाख्ये परमका-
रणे जगतोऽवस्थानकारणमुक्तं, तन्नोपपद्यते ।
तथाहि दृष्टवददृष्टकल्पना कर्तव्या, दृश्यते च
तन्तुतुरीवेमादिकारकग्रहणमविद्यमानपटस्या-
र्थिनः, नतु पटसद्भावे सति । पटस्य हि सत्त्वे
सति कारकशब्दोऽपि तन्त्वादेर्नोपपन्नः वि-
द्यमानत्वादेव । असदुत्पत्तौ हि कारकवस्तुनः
साफल्यं, नान्यथेति ॥
अत्र परिहारः
उत्पादयतु सर्वस्मा-
त्सर्वः सर्वमभीप्सितम् ॥१५॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते। १९७
अथाशक्यं यतः शक्य-
मत्र वः किं नियामकम्।
नच पश्यामि तत्किंचित्
आस्तां तावत्सदुत्पत्तिः। असदुत्पत्तौ कारक-
वस्तुनः तुरीतन्तुवेमादेः साफल्याभ्युपगमे
सर्वेभ्यो भावेभ्यः सर्वः सर्वमभीप्सितं कि-
मिति नोत्पादयति। अथ न शक्यं सर्वस्मात्स-
र्वमुत्पादयितुं कुतश्चित्कस्यचित्कार्यस्योत्पत्ति-
दर्शनात्। एवं तर्हि यस्मादेव कारणा-
द्यदुत्पद्यते, तस्मादेव तत्, नान्यस्मात्। तत्र किं
नियामकं भवतां, नहि तस्मिन्कारणे किमप्य-
न्यन्नियामकमुत्पश्यामो येनाभिज्ञातेनान्यदना-
दृत्य तदेव तदुत्पत्त्यर्थिनो गृह्णीमहि॥
अथ सर्वस्मात्सर्वोत्पत्तिप्रसङ्गभयात्तस्यैव
कारणस्य तत्कार्यजनिका शक्तिर्नान्यस्येति।
तदेतत्सिद्धं साध्यत इत्याह
शक्तिश्चेत्सिद्धसाध्यता ॥१६॥
किमन्येन कार्यप्रतिनियतकारणेनेति तत्त-
त्कार्यजनिका शक्तिरेव नियामिका भविष्यति

१९८ मृगेन्द्रतन्त्रे । [ १९
अतच्छक्तिमतस्तज्जननायोगात् यथा न पुत्र-
जननं षण्ढस्योपपद्यते । यद्येवं तस्मिन्नेव कारणे
तत्कार्यजननशक्तिमत्त्वं नान्यत्रेति शक्तिरूप-
तया तत्र तत्कार्यमवस्थितमित्यास्माकीनपक्षा-
नुप्रवेशात्सिद्धं साध्यते भवद्भिः ॥ १६ ॥
उपचयदूषणमाह
अन्यथा कारकव्रात-
प्रवृत्त्यनुपपत्तितः ।
श्रुतिरादानमर्थश्च
व्यपैतीत्यपि तद्धतम् ॥ १७ ॥
सत्यसदुत्पत्त्यभ्युपगमे कारकव्रातस्यैव प्रवृ-
त्तिर्नोपपद्यते । असतो हि कार्यस्य वन्ध्यासुता-
देरिवोत्पत्तये किं किल कारकाणि कुर्युः । कार-
कप्रवृत्त्यनुपपत्तेश्च घटादिचिकीर्षोर्मृत्पिण्डाद्या-
नयेत्यादिका श्रुतिः, तेषां च कारकाणामादानं
ग्रहणम्, अर्थश्च तद्व्यापारलक्षणा क्रिया व्यपैति
विघटते । तस्मिंश्च व्यपेते सर्वचेष्टाव्याघातः,
प्रत्युत युष्मत्पक्षे जगद्व्याहतं स्यात् ॥ १७ ॥
ननु शक्त्यात्मना कारणे कार्यं नावस्थितम्,

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १९९
अपितु तदुत्पादिका शक्तिस्तत्रास्तीयतच्छ-
क्तिमत्तस्तज्जननायोगात् कार्यकारणप्रतिनिय-
मसिद्धौ न काचित् क्षतिरिति पराभिप्रायमा-
शङ्क्य, तं पराकरोति
अथास्त्युत्पादिका शक्ति-
र्न कार्यं शक्तिरूपकम् ।
तयोर्विशेषणं वाच्यं
नैतत्पश्यामि किञ्चन ॥ १८ ॥
अथ मतं प्रतिनियतकार्यजनिका कारणे
शक्तिरस्ति, नतु शक्त्यात्मना कार्यमवस्थित-
मिति। तदेतच्छब्दमात्रेण भिन्नं, नार्थेन। वक्तव्यं
ह्यत्र विशेषणं भवता। यदुत तत्तत्कार्यजनिका
शक्तिः कारणेऽस्ति, शक्त्यात्मना वा तत्तत्कार्यं
कारणे स्थितमित्यत्र नहि किञ्चिद्विशेषणमु-
त्पश्यामः ॥ १८ ॥
यत एवं
तस्मान्नियमिका जन्य-
शक्तिः कारकवस्तुनः ।

२०० मृगेन्द्रतन्त्रे । [ ११९
सान्वयव्यतिरेकाभ्यां
रूढितो वावसीयते ॥ १९ ॥
तस्मात्स्थितमेतत्-यदुत जन्यशक्तिः कार-
कवस्तुनो नियामिका इदमस्मादेवोत्पद्यत
इति । साच जन्यशक्तिरन्वयव्यतिरेकाभ्यां,
प्रसिद्ध्या वावगम्यते । सत्येव मृत्पिण्डे घटाद्यु-
त्पत्तिरसत्यनुत्पत्तिरेवेत्यन्वयव्यतिरेकौ । रूढि-
श्चेयमाबालबालिशाङ्गनं स्थिता-यद्घटोत्पत्त्य-
र्थिनो न मृत्पिण्डव्यतिरिक्तमुपादानं कुलाल-
स्योपाहरन्तीति । ननु मृत्पिण्डे यदि घटः स्यात्,
तत्कुम्भकारव्यापारं विनाप्युपलभ्येत, नचो-
पलभ्यते, तस्मान्न मृत्पिण्डे घटोऽस्ति, अपितु
ततः कुम्भकारेण क्रियते यतस्तद्व्यापारानन्तर-
मुत्पद्यमानस्य घटस्योपलम्भः। नैतत् । उपल-
ब्धिकारणाभावात्तत्र घटस्यानुपलम्भः, नत्वस-
त्त्वात् । यदा पुनः कुलालादस्याभिव्यञ्जनक्रिय-
योपलब्धियोग्यता भवति, तदोपलभ्यत एव
यथा खननादिना कीलमूलोदकादि । ननु कील-
मूलादेः प्राक्सत्त्वे प्रमाणमस्ति, नतु मृत्पिण्डे
घटस्य, तस्माद्धटस्ततो भवति, नत्वभिव्यज्यत

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २०१
इति युक्तमुक्तम् । एवं चेत्, तदत्रापि सत्त्वे
प्रमाणम् ‘असदकरणादुपादानग्रहणात्’ (सां०
का० ९) इत्यादि संभवेत्-, इत्यभिव्यक्तिवाद
एवमुक्तः ॥ १९ ॥
यद्येवं, तर्हि सतो भावस्य सत्त्वादेव जननं
नोपपद्यते दृश्यमानस्य घटादेरिवेति पुनः स
दोषस्तदवस्थ एवेत्याह
तद्व्यक्तिर्जननं नाम
तत्कारकसमाश्रयात् ।
तेन तन्तुगताकारं
पटाकारावरोधकम् ॥ २० ॥
वेमादिनापनीयाथ
पटव्यक्तिः प्रकाश्यते ।
तदेतत्पटादेर्भावस्य जननमभिमतं-यत्तूरी-
तन्तुवेमादिसमाश्रयाच्छक्त्यात्मनावस्थितस्य
तस्याभिव्यक्तिः । यतः पटाकारप्रतिबन्धकं
तन्तुगतमाकारं वेमादिकारकव्रातेनापास्य अ-
नन्तरं पटस्य व्यक्तिः प्रकाश्यते, नतूपलभ्य-
मानपटान्तरवत् सदैव तन्त्वादिभ्यः पटाद्युत्प-
द्यते इति । अभिव्यक्तिरपि किमसत्कार्यमुत ने-
२६

२०२ मृगेन्द्रतन्त्रे । [ २१९
त्येवमादिकुतार्किककुविकल्पपरिहारो ग्रन्थवि-
स्तरभीरुत्वान्न लिखितः । व्यक्तिस्वरूपत्वादभि-
व्यक्तेरभिव्यङ्ग्यता, नवेत्यादयः किल वितर्का
दूरापेता एव प्रकाशवत् । यथाहि प्रकाशः प्र-
काशात्मकत्वान्न प्रकाशान्तरप्रकाश्यः, एवम-
अभिव्यक्तिर्व्यक्तिस्वभावत्वान्नाभिव्यक्त्यन्तरम-
पेक्षत इति ॥
तदेवं प्रकृते किं सिद्धमित्याह
यथा कटादिगूढस्य
पटादेस्तद्व्युदासतः ।
नासतः क्रियते व्यक्तिः
कलादेर्ग्रन्थितस्तथा ॥ २१ ॥
यद्वत्कटाद्याच्छन्नस्य पटादेर्वस्तुनस्तदाच्छा-
दकापनयान्नाविद्यमानस्य व्यक्तिः क्रियते, अपि-
तु सदेव पटादि व्यज्यते, एवमुपसंहारकाले
शक्त्यात्मना लीनं कलादि कार्यमहर्मुखे ग्र-
न्थितः ग्रन्थितत्त्वादनन्तेशव्यापारेणाभिव्य-
ज्यत इति मायाख्यपरमकारणसिद्धिः ॥२१॥
इति श्रीमद्विद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्रवृत्तौ
ग्रन्थितत्त्वपरीक्षाप्रकरणं नवमम् ॥ ९ ॥

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( दशमः पटलः )
युक्त्यागमाभ्यां ग्रन्थितत्त्वमुपपाद्य, तत्कार्य-
भूतं कलादिकमभिधातुं तच्छेषभूतं प्रकरणा-
न्तरमाह । अस्य च प्राक्तनमेव संबन्धपञ्चकं
ज्ञेयम् ।
ग्रन्थिजन्यं कलाकाल-
विद्यारागनृमातरः ।
गुणधीगर्वचित्ताक्ष-
मात्राभूतान्यनुक्रमात् ॥ १ ॥
मायातत्त्वात्प्रथमतः कलाभिधेययोः कला-
नियत्योः, कालस्य, नृशब्देनोक्तस्य पुंसश्च पुंस्प्र-
त्ययहेतोस्तत्त्वविशेषस्याभिव्यक्तिः, कलातत्त्वात्तु
विद्यारागाव्यक्तानां, मातृशब्देन च प्रकृतिरव्य-
क्ताख्या तत्सकाशाद्गुणाः, तेभ्यो बुद्धिः, तस्या
अहङ्कारः, तस्मात्तैजसाद्बुद्धीन्द्रियाणि मनश्च,

२०४ मृगेन्द्रतन्त्रे । [ ११०
वैकारिकात्कर्मेन्द्रियाणि, भूतादिसंज्ञात् मात्रा-
शब्देनोद्दिष्टानि तन्मात्राणि, तेभ्यो भूतानीत्य-
स्मादनुक्रमादेतद्ग्रन्धितत्त्वतोऽभिव्यङ्ग्यम् ॥१॥
विधत्ते देहसिद्ध्यर्थं
यत्साक्षाद्यत्पदान्तरात् ।
यथा युनक्ति यद्धेतो-
स्तादृक्तदधुनोच्यते ॥ २ ॥
अशुद्धाध्वन्यधिकृतोऽनन्तेशनाथ आत्मनां
देहादिक्लृप्त्यै ग्रन्धितत्त्वात् यत् साक्षादव्यवधा-
नेन कलादिकार्यं व्यनक्ति, यच्च पदान्तरात्
स्थानान्तरात् कलादेर्विद्यारागादि व्यनक्ति, त-
द्यस्मात्कारणादभिव्यक्तं पदार्थं येन वा प्रका-
रेण युनक्ति देहादिसिद्धौ योजयति, तत्तादृगि-
दानीं कथ्यते ॥ २ ॥
कर्तृशक्तिरणोर्नित्या
विभ्वी चेश्वरशक्तिवत् ।
तमश्छन्नतयार्थेषु
नाभाति निरनुग्रहा ॥ ३ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २०५
तदनुग्राहकं तत्त्वं
कलाख्यं तैजसं हरः ।
मायां विक्षोभ्य कुरुते
प्रवृत्त्यङ्गं परं हि तत् ॥ ४ ॥
अणोरात्मनः शिवशक्तिवद्यद्यपि नित्या
व्यापिका च कर्तृशक्तिर्मुक्तौ तथाविधत्वसंश्रव-
णात्, तथाप्यनादिमलावृतत्वात् करणीयेष्वर्थेषु
न निरनुग्रहा सा आभाति । तस्या अनुग्राहकं
समर्थकं कलाख्यं तत्त्वं, हरति भोगमुक्त्यर्थम-
धोवर्तिनोऽणूनिति, हरोऽनन्तेशः मायां विक्षो-
भ्य प्रसवोन्मुखीं कृत्वा कुरुते अभिव्यनक्ती-
त्यर्थः । यस्मात्कलाख्यं तत्त्वं परं प्रवृत्त्यङ्गमा-
त्मनः कर्तृस्वरूपसमर्थनं, तेनैव व्याप्तत्वात् ।
नह्यसौ तेनानुत्तेजितकर्तृभावः प्रवर्तितुं शक्तः
स्यात् । तैजसत्वं चास्य सहजमलतिरस्करणेना-
णोरेकदेशेन प्रकाशनहेतुत्वात् ॥ ४ ॥
एतदेवाह
तेन प्रदीपकल्पेन
तदास्वच्छचितेरणोः ।