मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 232, कुल 448 में से
संदर्भ में पढ़ें२०२ मृगेन्द्रतन्त्रे । [ २१९
त्येवमादिकुतार्किककुविकल्पपरिहारो ग्रन्थवि-
स्तरभीरुत्वान्न लिखितः । व्यक्तिस्वरूपत्वादभि-
व्यक्तेरभिव्यङ्ग्यता, नवेत्यादयः किल वितर्का
दूरापेता एव प्रकाशवत् । यथाहि प्रकाशः प्र-
काशात्मकत्वान्न प्रकाशान्तरप्रकाश्यः, एवम-
अभिव्यक्तिर्व्यक्तिस्वभावत्वान्नाभिव्यक्त्यन्तरम-
पेक्षत इति ॥
तदेवं प्रकृते किं सिद्धमित्याह
यथा कटादिगूढस्य
पटादेस्तद्व्युदासतः ।
नासतः क्रियते व्यक्तिः
कलादेर्ग्रन्थितस्तथा ॥ २१ ॥
यद्वत्कटाद्याच्छन्नस्य पटादेर्वस्तुनस्तदाच्छा-
दकापनयान्नाविद्यमानस्य व्यक्तिः क्रियते, अपि-
तु सदेव पटादि व्यज्यते, एवमुपसंहारकाले
शक्त्यात्मना लीनं कलादि कार्यमहर्मुखे ग्र-
न्थितः ग्रन्थितत्त्वादनन्तेशव्यापारेणाभिव्य-
ज्यत इति मायाख्यपरमकारणसिद्धिः ॥२१॥
इति श्रीमद्विद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्रवृत्तौ
ग्रन्थितत्त्वपरीक्षाप्रकरणं नवमम् ॥ ९ ॥