सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 89, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 89

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ५९
इत्थमस्यैव पदार्थत्रयस्य विद्यापादे स्थि-
तस्य चर्यादिपादत्रयेण विनियोगो विभजन-
मभिधास्यते वक्ष्यते । एवंविधेन विधिना पतिः
पाशोपशमनं कृत्वा पशूनां कैवल्यदो भवति
आत्मनामिति प्रतिपदमेषामेव प्रविवेको-
ऽभिधास्यत इत्यर्थः ॥ ८ ॥
तत्फलकथनायाह
विनियोगफलं मुक्ति-
र्भुक्तिरप्यनुषङ्गतः ।
परापरविभागेन
भिद्येते ते त्वनेकधा ॥ ९ ॥
तस्य च विनियोगस्य विभजनस्य मुक्तिः
फलं, अनुषङ्गतः अनुनिष्पन्नतया भुक्तिरपि व-
क्ष्यमाणा भौतिकदीक्षादिभिः समभिलषित-
भोगोपभोगात् परतः परकैवल्याविर्भावः । तथा
चोक्तं रुरुसंहितायां
‘दीक्षापूता गणपतिगुरोर्मण्डले जन्मवन्तः
सिद्धा मन्त्रैस्तरुणदिनकृन्मण्डलोल्लासिदेहाः ।
भुक्त्वा भोगान् सुचिरममरस्त्रीनिकायैरुपेताः
स्रस्तोत्कण्ठाः शिवपदपरैश्वर्यभाजो भवन्ति ॥’