मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 88, कुल 448 में से
संदर्भ में पढ़ें५८ मृगेन्द्रतन्त्रे । [ १।२
शरीरवतः कर्म करणं, तच्च शरीरं कर्मारब्धं,
तान्यपि शरीरान्तरेण कृतानि, तच्च कर्मज-
मिति सोऽयं तृतीयः पाशः । मात्यस्यां शक्त्या-
त्मना प्रलये सर्वं जगत् सृष्टौ व्यक्तिं यातीति
माया । यथोक्तं श्रीमत्सौरभेये
'शक्तिरूपेण कार्याणि तल्लीनानि महाक्षये ।
विकृतौ व्यक्तिमायान्ति...........॥'
इति । स्वकार्येण कलादिना सहितेयमप्यनादि-
कालीना चतुर्थः पाश इति । एतदात्मनां सह-
जसामर्थ्यप्रतिबन्धकत्वात् पाशानां जालमिव
जालं समासतः संक्षेपादुक्तम् । येषां च ये
धर्मा व्यापारास्ते नाम्नैव प्रदर्शिताः अन्वर्थेन
स्वाभिधानेन सूचितास्तथापि यथावसरं व-
क्ष्यन्ते ॥ ७ ॥
अथ पदार्थत्रयोपसंहारः
इति वस्तुत्रयस्यास्य
प्राक्पादकृतसंस्थितेः ।
चर्यायोगक्रियापादै-
र्विनियोगोऽभिधास्यते ॥ ८ ॥