सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 87, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 87

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ५७
काभावकृतः अतश्च नासत्त्वं साधयति । तच्च
सर्वतोमुखत्वं सदपि यस्मान्न प्रथते, ततः
केनापि प्रतिबद्धमित्यवसीयते । अस्माच्च हेतो-
रनावृतनिजसामर्थ्यस्य मुक्तेः पुरा स आत्मा
वश्य इति ॥ ५, ६ ॥
एवं द्वितीयं पदार्थमभिधाय, तृतीयपदार्थं
लक्षयितुमाह
प्रावृतीशबले कर्म
मायाकार्यं चतुर्विधम् ।
पाशजालं समासेन
धर्मा नाम्नैव कीर्तिताः ॥ ७ ॥
प्रावृणोति प्रकर्षेणाच्छादयति आत्मनां दृ-
क्क्रिये इति प्रावृतिः स्वाभावक्यशुद्धिर्मल इ-
त्यर्थः । ईष्टे स्वातन्त्र्येणेतीशः तदीयं बलं
रोधशक्तिर्द्वितीयः पाशः । तथा ह्यग्रे वक्ष्यति
'तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥' (७ पट०)
इति । क्रियते तत्तत्फलार्थिभिरिति कर्म, तस्य
चानादित्वमाद्यकोटेरनुपलभ्यमानत्वात्, यतः
८