मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 85, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ५५
'नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥'
इति । तस्मात्स्वभावसिद्धनित्यनिरतिशयनि-
र्मलसर्वार्थदृक्क्रियः पतिपदार्थः पूर्वमुद्दिष्टोऽनेन
लक्षितः परीक्ष्यते पुरस्तात् ॥ ३, ४ ॥
इदानीं पशुपदार्थं लक्षयितुमाह
चैतन्यं दृक्क्रियारूपं
तदस्त्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ
श्रूयते सर्वतोमुखम् ॥ ५ ॥
सदप्यभासमानत्वा-
तन्निरुद्धं प्रतीयते ।
वश्योऽनावृतवीर्यस्य
सोऽत एवाविमोक्षणात् ॥ ६ ॥
ज्ञानक्रियात्मकं यच्चैतन्यं, तदात्मन्यस्ति,
नतु शरीरसमवेतमिति चार्वाकनिराकरणे
वक्ष्यामः । तच्च सर्वदैवास्ति, नतु मुक्तावेव,
१ यथा एकस्मिन्नपि दीपे प्रकाशकत्वं दाहकत्वं, तथा एकस्यामपि
चिच्छक्तौ ज्ञानजनकत्वेन दृक्शक्तित्वं, कार्यजनकत्वेन क्रियाशक्तित्वम् ।