मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 64, कुल 448 में से
संदर्भ में पढ़ें३४ मृगेन्द्रतन्त्रे । [ १।१
स चेदमूलो भूतानां
हताः सर्वाः प्रवृत्तयः ॥ १४ ॥
नद्यास्तीरे गुडशकटं पर्यस्तमित्यादेर्निर्मूल-
स्यापि प्रवादस्य एकान्तेन न मिथ्यात्वं कदाचि-
त्संवादित्वात् । ततश्च सर्वप्रवादो न सत्य
इत्येतन्न युक्तिमत् न प्रमाणोपपन्नमिति यावत्
समूलत्वे सति मिथ्यात्वासिद्धेः । मूलं चास्या-
गमः । तथाचाहुः
‘प्रसिद्धिमागमः प्राप्तो लोक इत्यभिधीयते ।’
इति । अथ निर्मूलो यः प्रवादः स चेन्मि-
थ्यारूपः, तदप्ययुक्तं यस्मादेवं कल्प्यमाने
भूतानां सर्वाः प्रवृत्तयो व्याहन्येरन् । सर्वो हि
हितप्रेप्सुरहितजिहासुर्वा न प्रमाणघटनां¹
कृत्वा तां पुरस्कृत्य लोकव्यवहारे दृष्टफले
सेवाकृष्यादावदृष्टफले वे²ष्टापूर्तादौ प्रवर्तते, किं-
तु प्रायशो गतानुगतिकप्रवादमात्राधिवासि-
तमतिः । कीदृशं च भवता प्रवादस्य मूलम-
१ प्रमाणसत्तां निश्चित्य । २ लोकव्यवहारे इष्टापूर्तादौ च गतानुगतिक-
प्रवादाधिवासितमतिः पुमान् प्रवर्तते इति पूर्वेणान्वयः ।