सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 422, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 422

२८ मृगेन्द्रतन्त्रे । [ १११
भिहितानां प्रणयनाद्यानां सिद्ध्यर्थं स्वाधीनत्वे
सति तत्तत्फलसंपादकत्वाय पूर्वोक्तेष्वेव हृत्क-
ण्ठादिषु स्थानेषु वायवीं धारयेत् । विषो-
न्मादमदव्याध्याद्यभिभूयमानस्तु तेष्वेव हृद-
यादिषु मध्यादन्यतमे स्थाने व्योमधारणां बध्नी-
यात् । यत्र वा विषाद्युपघातवत्यङ्गे तथा धार-
णानुपयोगवत् सप्रयोजनं तस्मिन् धारयेत् ॥
इदानीं परस्परमेषां पृथिव्यादीनां मध्यस्था-
रातिमित्रत्वं विवेचयन् सर्वसाधारणत्वमा-
काशस्य तावत्प्रथममभिधातुमाह
खं समस्तेषु भूतेषु
वारिवायू शिखिक्षिती ॥ ४२ ॥
वार्यग्नी भूमिपवनौ
वारिक्ष्मे अनलानिलौ ।
मध्यस्थारातिमित्राणि
चतुष्के युग्मयुग्मशः ॥ ४३ ॥
परिज्ञायेति मतिमान्
योजयेदिष्टसिद्धये ।
१ 'वायुवारी' क. ।