मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 423, कुल 448 में से
संदर्भ में पढ़ेंश्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २९
आकाशस्तावत् व्यापकत्वादन्तर्वर्तित्वेन
सर्वेषामवकाशदायित्वेन मित्रमेषां ज्ञेयम् ।
वारिवायू शिखिक्षिती इत्यादेश्चतुष्कत्रयादेकै-
कस्मिंश्चतुष्के यथाक्रमं युग्मयुग्मश इति द्वयं
द्वयं क्रमात् मध्यस्थारातिमित्राण्येतानि बोद्ध-
व्यानि । तथाहि वारिवायू शिखिक्षिती इत्य-
त्राद्ये चतुष्के जलपवनयोः क्षित्यग्न्योश्च परस्परं
न मित्रत्वं न शत्रुत्वमिति मध्यस्थत्वमेषां
बोद्धव्यम् । वाय्वग्नी भूमिपवनावित्यत्रापि म-
ध्यमचतुष्के बाध्यबाधकभावेन परस्परमेषां
चतुर्णामवस्थितेररातित्वं शत्रुता । वारिक्षमे
अनलानिलावित्यत्र तृतीयस्मिंश्चतुष्के भूमिज-
लयोर्वाय्वग्न्योश्चान्योन्यं पोषकत्वान्मित्रत्वम् ,
इत्येवं परिज्ञाय बुद्ध्वा प्राज्ञो योगी तथा तथा
साधकत्वेन बाधकत्वेन वा यथावसरमिष्टसि-
द्ध्यर्थमेतान् प्रयुञ्जीत ॥
अथ विद्यापादान्तर्गतप्रत्ययादिविचारप्रक-
रणे प्राणादिवायूनां स्वरूपोक्तौ
‘........स्थानं यद्यस्य धारणे ।
जयः फलं वाच्यशेषं पत्या स्कन्धान्तरेरितम्’
१ 'शत्रुभावः' क. ।