मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 421, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७
आसां च धारणानां व्यस्तानां समस्तानां फलं
सुराधिनाथ अस्मभ्यमादिशेति प्रश्नः ॥
अथात्र प्रतिवचनम् ।
हृदि चेतसि विक्षिप्ते
धारयेत्क्षितिमर्थवित् ॥ ४० ॥
जलं पिपासितः कण्ठे
मन्देऽग्नौ जठरेऽनलम् ।
प्राणादिवृत्तिसिद्ध्यर्थं
हृत्कण्ठादिषु मारुतम् ॥ ४१ ॥
विषयाभिभवे व्योम
तेषु यत्रोपयोगवत् ।
चेतसो यदा विक्षिप्तता स्यात् तत्प्रयोज-
नज्ञो योगी हृत्प्रदेशे पार्थिवीं धारणां स्थैर्य-
कारित्वेनोक्तां धारयेत् । दुर्वाराया तु तृषा यदा
बाधितः स्यात्तदा वारुणीं धारणां कण्ठे बिभृ-
यात्, आप्यायनार्थं तस्याः प्रोक्तत्वात् । जाठ-
रस्यान्येर्मान्द्ये सति तत्संधुक्षणार्थं जठरे प्रागु-
क्तामाग्नेयीं बध्नीयात् । प्राणादिवृत्तीनां प्राग-
१ 'तदा प्र' क. ।