सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 420, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 420

२६ मृगेन्द्रतन्त्रे । [ २११
न्दुना शून्येन च लाञ्छितानि स्थैर्याद्यर्थं भ-
वन्ति, तत्साधकानि संपद्यन्त इत्यर्थः ॥
तानि च
बाधकान्यनुवर्तीनि
मध्यस्थान्यवगत्य च ॥३८॥
योगी व्यस्तसमस्तानि
बिभृयादिष्टसिद्धये ।
पृथिव्यादीन्येव मित्रामित्रमध्यस्थत्वेन व्य-
स्तसमस्तानि बुद्ध्वा तेषु कार्येष्विष्टसिद्ध्यर्थं
योगी धारयेत् ॥
अथ धारणारूपतत्फलजिज्ञासया मुनिः
प्रक्ष्यति
क्व देशे धारणारूपं
चिन्तनीयं विपश्चिता ॥३९॥
किंच व्यस्तसमस्तानां
फलं ब्रूहि सुरेश्वर ।
धारणासु यदेतद्रूपं हेमहिमज्योतिरित्य़ादि-
नोपदिष्टं तत् कस्मिन् स्थाने तद्विदा चिन्त्यम् ।