सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 238, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 238

२०८ मृगेन्द्रतन्त्रे । [. १।१०
न्यवत्' एकीभूयालक्षितव्यतिरेकमिति यावत्।
उक्तं च बृहस्पतिपादैः
'जन्तौर्विभात्यतिश्लेषात्सा द्वितीयेव चेतना।'
इति। विप्रेत्यामन्त्रणेन वक्ता श्रोतारं मुनिम-
वहितं करोति ॥ ७ ॥
विद्यातत्त्वस्य व्यापारं वक्तुमाह
एवं व्यक्तक्रियाशक्ति-
र्दिदृक्षुर्गोचरं दृशः।
भजत्यनुग्रहापेक्षां
स्वयं द्रष्टुमशक्नुवन् ॥ ८ ॥
तदर्थं क्षोभयित्वेशः
कलामेव जनिक्षमाम्।
तत्त्वं विद्याख्यमसृज-
त्करणं परमात्मनः ॥ ९ ॥
उक्तेन प्रकारेण व्यक्ता क्रियाशक्तिर्यस्य स
तथाविधोऽणुर्गोचरं प्रतिबिम्बितविषयं बुद्ध्या-
ख्यं द्रष्टुमिच्छुर्द्दशो ज्ञानस्यानुग्रहापेक्षां भजते
ज्ञानशक्त्यनुग्रहमपेक्षत इति तात्पर्यम्। स्वयं
द्रष्टुमशक्नुवन्निति विशेषणभावेन हेतूप्न्यासः