सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 237, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 237

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २०७
णायाः कलायाः क्षेपार्थवृत्तिप्रकृतिभूतः प्रथमः,
द्वितीयस्तु संख्यानार्थवृत्तिः कलनादियत्तया
नियमनात् कलाशब्दापरपर्याया नियतेः ॥६॥
इदानीमात्मनः कलायाश्च कर्तृकारकताम-
भिधातुमाह
इत्येतदुभयं विप्र
संभूयानन्यवत्स्थितम् ।
भोगक्रियाविधौ जन्तो-
र्निजगुः कर्तृकारकम् ॥ ७ ॥
जन्तोरानासादितभोगस्याणोर्यो भोगक्रिया-
विधिस्तस्मिन्नुत्पाद्ये, इति अनेन प्रागुक्तेन प्रका-
रेण, एतत् आत्मकलाख्यं कर्तृकारकं निजगु-
रुपदिदिशुर्गुरवः । तैर्हि भोक्तृतया कर्तृत्वेना-
त्मोक्तः, तस्य कर्तृशक्तेरपोद्वलकत्वात्कारकं
हेतुः कर्त्री कला
'प्रयोक्त्र्यादि महीप्रान्तम्…………।' (१२ पट०)
इत्यादिना तस्या एव प्रयोक्तृशब्देन वक्ष्यमा-
णत्वात् । कथं चैतद्वयं स्थितमित्याह 'संभूयान-