मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 178, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 178
१४८ मृगेन्द्रतन्त्रे । [ १५
‘आत्मैवेदं सर्वम् ।’ ‘पुरुष एवेदं सर्वम् ।’
इत्येवंविधपुरुषरूपेश्वरवादिनः कर्मकालाद्य-
क्तादिपाशरूपेश्वरवादिनो वा पशूनां स्वयमेवा-
नाद्यज्ञाननिमग्नत्वेनाकिंचित्करत्वात् , पाशानां
च तत्पाशन एव चरितार्थत्वात् तत्तत्संयोगे
वियोगादौ वा निगलादिवत् परापेक्षत्वे स-
त्यनीश्वरत्वात् । तथाविधेश्वरावबोधात् परमो-
चनं सकललोकोपहासावहं यतः । पशुशब्द-
श्चात्र समनन्तरप्रकरणोपक्रम्यमाणात्मतत्त्वो-
पक्षेपायोपहृतः ॥ १७ ॥
इति श्रीमद्भट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तावीश्वरपदार्थप्रकरणं पञ्चमम् ॥ ५ ॥