सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 177, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 177

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १४७
'अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् ।
कर्तारमस्य जानीमः••••••••••••••॥' (१।३।१)
इत्यादिना तावदीश्वरस्य सत्ता साधिता ।
'नित्यं कालानवच्छेदाद्वैतत्यान्न प्रदेशगम् ।
क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् ॥' (१।३।३)
इति तत्स्वरूपमुक्तम् ।
'करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः ।' (१।३।४)
इत्यनेन करणं कथितम् ।
'विनियोगफलं मुक्तिर्भुक्तिरप्यनुषङ्गतः ।' (१।२।९)
इत्यमुनार्थः प्रयोजनमुपवर्णितम् ।
'जगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः ।
कृत्यम्•••••••••••••••॥' (१।२।३)
इत्यनेन पञ्चविधं विधेयमुक्तम् । दृक्च अस्य
ज्ञानं
'नाध्यक्षं नापि तल्लिङ्गं•••••••••••••।' (१।५।१६)
इत्यादिना निर्णीतमिति । एताभिः सत्तास्वरूप-
करणार्थविधेयदृग्भिः संक्षेपोक्ताभिरीशतत्त्वं ये
विदुः जानन्ति, ते पुरुषाः संसारकर्दमनिमग्नान्
संसारिणो मोचयन्ति, नतु विस्तरेण पशुरूपं
पाशरूपं वा ईश्वरं ये विदुः, यथा