मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 176, कुल 448 में से
संदर्भ में पढ़ें१४६ मृगेन्द्रतन्त्रे । [१५
तदेकं विषयानन्त्या-
द्भेदानन्त्यं प्रपद्यते ।
कर्तृत्वं तदभिन्नत्वा-
त्तद्वदेवोपचारतः ॥ १७ ॥
यथावस्थितवस्त्ववभासात्मनस्तावत्तदीय-
स्यैकस्य ज्ञानस्य ज्ञेयानन्त्यादुपाधिभेदात्कृतमौ-
पचारिकमानन्त्यम्, शास्त्रात्मनोऽपि स्रोतोभे-
दादध्येतृभेदात्प्रवर्तयितृभेदात् । तेषां च परा-
परत्वाद्गौणमेवानन्त्यम् ।
‘सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः।’ (मो० का० २५)
इत्यनया दृशा तस्माज्ज्ञानादभिन्नत्वात् कर्तृत्व-
मपि तथैवोपचारादानन्त्यं प्रतिपद्यते ॥ १७ ॥
अथ निर्वर्णितोपसंहाराय व्याख्येयोपक्षे-
पाय चायं श्लोकः
सत्तास्वरूपकरणार्थविधेयदृग्भि-
र्लेशोदिताभिरिति ये विदुरीशतत्त्वम् ।
ते मोचयन्ति भविनो भवपङ्कमग्नान्
नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥