सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 174, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 174

१४४ मृगेन्द्रतन्त्रे । [ १५
तथाहि
यानि व्यञ्जकमीक्षन्ते
वृतत्वान्मलशक्तिभिः ।
व्यञ्जकस्यानुरोधेन
तानि स्युर्व्याहतान्यपि ॥१५॥
यानि किल ज्ञानानि मलशक्त्यावृतत्वाद्भो-
गनिष्पादनाय व्यञ्जकं कलाद्यपेक्षन्ते, तानि
व्यञ्जकस्य कलादेः स्वल्पप्रकाशकरणात् तथा-
विधव्यञ्जनभाञ्जि ज्ञेयविषये व्याघातवन्त्यपि
भवन्ति । नचेश्वरं ज्ञानमेवंविधं पूर्वोक्तादेवा-
वृत्तिशून्यत्वात्कारणात् । तथाचोक्तं श्रीकिरणे
'अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततः शिवः ।'
इति ॥ १५ ॥
यतश्चैवमतः
नाध्यक्षं नापि तल्लैङ्गं
न शाब्दमपि शाङ्करम् ।
ज्ञानमाभाति विमलं
सर्वदा सर्ववस्तुषु ॥ १६ ॥