सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 173, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 173

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १४३
यो यज्जानाति कुरुते
स तदेवेति सुस्थितम् ॥ १३ ॥
सर्वकर्तृत्वादेवेश्वरस्य सर्वज्ञत्वं सर्वविषय-
ज्ञानं विना सर्वकर्तृत्वानुपपत्तेः । यो हि यद्य-
त्क्रियासिद्धिं, तदङ्गानि, तत्फलानि च जा-
नाति, तस्यैव विचित्रतत्तत्कारकोपयोगाभि-
संधानवतस्तत्तत्कर्तृत्वं घटते कुविन्दादेरिव
पटादिकृतौ । अतो यस्तु तत्राज्ञः, स तत्कार्य-
करणाय नालं बालिश इव न्यायविद्याद्युप-
न्यास इत्येतत्सुस्थितमित्यव्यभिचारीति ॥१३॥
तच्चास्यावृतिशून्यत्वा-
न्न व्यञ्जकमपेक्षते ।
तन्न सांशयिकं तस्म-
द्विपरीतं न जातुचित् ॥ १४ ॥
शिवस्य तत् सर्वज्ञत्वमनाद्यावरणशून्यत्वान्न
व्यञ्जकापेक्षम्, नापि संसारिण इव संशयवि-
पर्ययानध्यवसाययुक्तमत एव हेतोः ॥ १४ ॥