सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 172, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 172

१४२ मृगेन्द्रतन्त्रे । [ १५
पाकार्हमपि तत्पक्तुं
नेशत्यात्मानमात्मना ।
धर्मसामान्य एवायं
सर्वस्य परिणामिनः ॥ १२ ॥
पाकयोग्यमपि तत् स्वयमात्मानमात्मना
न पाचयितुमीशम् । सर्वस्यैव हि परिणामिनो
वस्तुनः क्षीरादेरिवायं साधारणो धर्मः-यत्किम-
प्यपेक्ष्य परिणामित्वं नान्यथा, परिणामित्वाच्च
कर्मणोऽप्यन्यापेक्षो विपाकः । अनेन ‘मायाश-
क्तीर्व्यक्तियोग्याः प्रकुर्वन्’ इत्येतदपि प्रकाशितं
तस्यापि परिणामित्वात् । नचैषां मलमा-
याकर्मणां परिणामकत्वमनीशेन सुशकमित्यु-
क्तम् । ईशतीत्यदुष्टम् ईश इवाचरति इति ‘सर्व-
प्रातिपदिकेभ्य इत्येके’ इति क्विपः स्मरणात् ॥
तदियता तावत्सर्वकर्तृत्वं परमेश्वरस्य प्र-
तिपादितम् । अत एव चास्य सर्वज्ञत्वं सिद्ध्य-
तीत्याह
सर्वज्ञः सर्वकर्तृत्वा-
त्साधनाङ्गफलैः सह ।