सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 128, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 128

९८ मृगेन्द्रतन्त्रे । [१।३
सौत्रस्तु 'सर्वकृत्सर्वविच्छिवः' इत्यनेनोक्तः ।
वाक्यात्मकश्च
'तेन स्वभावसिद्धेन भवितव्यं जगत्कृता।'
इत्यादिभिर्वाक्यैः । प्राकरणिकोऽपि विद्या-
पादाख्येन प्रकरणेन । पाटलिकस्तु पूर्वपट-
लान्ते सर्वेशानशब्देन सूचितान्वयः । अने-
नैव क्रमेण विद्यापादान्तं यावत् संबन्धपञ्च-
कमनुसंधेयम् ।
अथोपलभ्य देहादि
वस्तु कार्यत्वधर्मकम् ।
कर्तारमस्य जानीमो
विशिष्टमनुमानतः ॥ १ ॥
अथशब्दोऽधिकारार्थः । अत्र हि पतिप-
दार्थपरीक्षाधिक्रियत इत्यर्थः । अत्र च तनुक-
रणभुवनादीनां भावानां संनिवेशविशिष्टत्वेन
कार्यत्वं बुद्ध्वा अनुमानेनैषां बुद्धिमत्कर्तृपूर्व-
कत्वं प्रतीयत इति तात्पर्यम् । ननु देहस्यैव
तावत्कार्यत्वमसिद्धं, नहि क्वचित्कदाचिद्देहः
केनचित्क्रियमाणो दृष्टः । सत्यं, केनचित्क्रिय-