मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 720, कुल 804 में से
संदर्भ में पढ़ें६६६ मीमांसादर्शनम् [ सू०
अस्तु विशेषणत्वेनाऽऽकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम् । न ह्याकृति-
पदार्थकस्य१ व्यक्तिर्न पदार्थः, व्यक्तिपदार्थकस्य२ वा नाऽऽकृतिः । उभयमुभयस्य३
पदार्थः । कस्यचित् प्राधान्येन विवक्षितं भवति, तेनात्राऽऽकृतिर्गुणभावेन, व्यक्तिः
प्रधानभावेन विवक्ष्यत४ इति ।
नैतदेवम् । उभयोरुच्यमानयोर्गुणप्रधानभावः स्यात् । यदि चात्राऽऽकृतिः
प्रतीयते शब्देन, तदा५ व्यक्तिरपि पदार्थ इति६ न शक्यते वदितुम् । कुतः ?
आकृतिर्हि व्यक्त्या नित्यसम्बद्धा, सम्बन्धिन्यां च तस्यामवगतायां सम्बन्ध्यन्तर-
मवगम्यते । तदेतदात्मप्रत्यक्षम्७, यच्छब्द उच्चारिते८ व्यक्तिः प्रतीयत इति ।
किं शब्दात्, उताऽऽकृतेरिति विभागो न प्रत्यक्षः । सोऽन्वयव्यतिरेकाभ्यामव-
गम्यते । अन्तरेणापि शब्दं य आकृतिमवबुध्येत, अवबुध्येतैवासौ व्यक्तिम् ।
यस्तूच्चरितेऽपि९ शब्दे मानसादपचारात् कदाचिदाकृतिं१० नोपलभेत, न जातु-
चिदसाविमां११ व्यक्तिमवगच्छेत् । ननु व्यक्तिविशिष्टायामाकृतौ वर्तते । व्यक्ति-
विशिष्टायां चेद् वर्तेत, व्यक्त्यन्तरविशिष्टा न प्रतीयेत । तस्माच्छब्द आकृति-
प्रत्ययस्य निमित्तम् । आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति ।
ननु गुणभूता प्रतीयेत इत्युक्तम् । न गुणाभावोऽस्मत्पक्षस्य१२ बाधकः । सर्वथा
तावत् प्रतीयते । अर्थाद् गुणभावः, प्रधानभावो वा । स्वार्थं चेदुच्चार्यते, प्रधान-
भूता । अथ न स्वार्थम्, परार्थमेव, ततो गुणभूता । न तत्र शब्दव्यापारोऽस्ति ।
ननु च दण्डीति, न तावद् दण्डिशब्देन दण्डोऽभिधीयते, अथ च दण्ड-
विशिष्टोऽवगम्यते । एवमिहापि न तावदाकृतिरभिधीयते, अथ चाऽऽकृतिविशिष्टा
व्यक्तिर्गम्येतेति । नैतत्साधु उच्यते । सत्यं दण्डिशब्देन दण्डो नाभिधीयते, न
त्वप्रतीते दण्डे दण्डिप्रत्ययोऽस्ति । अस्ति तु दण्डिशब्दैकदेशभूतो१३ दण्डशब्दः,
येन दण्डः प्रत्यायितः । तस्मात् साध्वेतद्यत्१४ प्रतीते विशेषणे१५ विशिष्टः प्रतीयते
इति । न१६ तु१७ गोशब्दावयवः कश्चिदाकृतेः प्रत्यायकः, अन्यो व्यक्तेः यत उच्येत,
१ ब. पदार्थस्य । २ ब. व्यक्तिपदार्थस्य ।
३ ब. उभय उभयस्य । ४ ब. भावेनवक्ष्यत ।
५ ब. न तदा । ६ ब. इति शक्यं वक्तुं ।
७ ब. तदेतत्प्रत्यक्षम् । ८ ब. उच्चारिते ।
९ ब. यस्तूच्चारिते । १० ब. कदाचिन्नाकृतिमुप । ११ ब. दसौ व्यक्ति ।
१२ ब. प्रत्यक्षस्य । १३ ब. दण्डिशब्दे एकदेशभुतो । १४ ब. साध्येतत् प्रतीयते ।
१५ ब. विशेषणविशिष्टं । १६ ब. न गोशब्दावयवः । १७ क. ननु ।