सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 719, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 719

३३ ] प्रथमाध्याये तृतीयपादः ६६५
यद्युच्येत 'व्रीहीन् प्रोक्षति' इति व्यक्तिलक्षणार्थाऽऽकृतिरिति, शक्यमन्यत्रापि
श्येनचितं चिन्वीत इति वदितुमाकृतिलक्षणार्था व्यक्तिरिति ।
किं पुनरत्र ज्यायः ? आकृतिः शब्दार्थ इति । यदि व्यक्तिः शब्दार्थो¹
भवेद्, व्यक्त्यन्तरे न प्रयुज्येत । अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः
शब्दार्थः । सर्वसामान्यविशेषविनिर्मुक्ता हि व्यक्तिरित्युच्यते । नैष दोषः ।
सर्वसामान्यविशेषविनिर्मुक्त एव² वर्तिष्यते । यदि व्यक्त्यन्तरे सर्वसामान्य-
विशेषवियुक्ते³ प्रवर्तिष्यते, सामान्यमेव तर्हि तत् ? नेत्युच्यते । यो ह्यर्थः
सामान्यस्य, विशेषाणां चाऽऽश्रयः सा व्यक्तिः, व्यक्तिवचनश्च शब्दो न
सामान्ये, न विशेषे वर्तते, तेषां त्वाश्रयमेवाभिदधाति⁴ । तेन व्यक्त्यन्तरे
वृत्तिरदोषः । न हि तत्सामान्यम् ।
यदि व्यक्त्यन्तरेष्वपि भवति, सर्वसामान्यविशेषवियुक्तायामश्वव्यक्तौ
गोशब्दः किमिति न वर्तते । आह—येष्वेव प्रयोगो दृष्टः तेषु वर्तिष्यते, न सर्वत्र ।
न चाश्वव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः । तस्मात्तत्र⁵ न वर्तिष्यते । यदि यत्र
प्रयोगो दृष्टः तत्र वृत्तिः, अद्य जातायां गवि प्रथमप्रयोगो न प्राप्नोति, तत्रा-
दृष्टत्वात् । सामान्यप्रत्ययश्च न प्राप्नोति, इयमपि गौरिति, इयमपि गौरिति ।
इयं वा गौरिति, इयं वा⁶ गौरिति स्यात् । भवति तु सामान्यप्रत्ययोऽदृष्ट-
पूर्वायामपि गोव्यक्तौ । तस्मान्न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यत
आश्रयितुम् ।
एवं तर्हि⁷ शक्तेः स्वभाव एषः, यत् कस्यांचिद् व्यक्तौ वर्तते, कस्यांचिन्न ।
यथा—अग्निरुष्णः, उदकं शीतम्, एवमेतद् भविष्यतीति । नैवं सिध्यति । न
ह्येतद् गम्यते कस्यांचिद्⁸ व्यक्तौ वर्तते, कस्यांचिन्नेति ।
सत्यमेतत् । गोत्वं लक्षणं भविष्यतीति । यत्र गोत्वम्, तस्यां व्यक्ताविति ।
एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत । यदि च विशिष्टा, पूर्वतरं विशेषणमव-
गम्येत⁹ । न ह्यप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्तीति ।
१ ब. शब्दार्थो व्यक्त्यन्तरे । २ ब. एव वर्तिष्यते ।
३ ब. विशेषविनिर्मुक्त एव वर्तिष्यते । यदि सामान्यविशेषवियुक्तं (इत्यधिकम्) ।
४ ब. मेवाभिवदति । ५ ब. तस्मान्न तत्र ।
६ ब. इयंवेति स्यात् । ७ ब. तर्हि स्वेभाव एव यत्तु ।
८ ब. कस्यां व्यक्तावतंते कस्यां नैति । यत्र गोत्वम् ।
९ ब. विशेषोवगम्यते । न हांप्रतीतविशेषे ।