सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 680, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 680

६२६ मीमांसादर्शनम् [ सू०
अत्र वार्त्तिकमतं
व्याख्यातारस्तथाऽप्यत्र कुर्युः पक्षान्तराण्यपि ॥ ९४१
नियोगेन विकल्पेन द्वे वा सह समुच्चिते ।
सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ॥ ९४२
एते पक्षाः पुनर्योज्या व्यतिकीर्णाः परस्परम् ।
लिङ्ग-कारकसङ्ख्याभिः संहतासंहतात्मभिः ॥ ९४३
पुनर्जात्यादिपक्षाणां तादृश्येवात्र योजना ।
प्रथमं तावदष्टपक्ष्येवं दर्शयितव्या—गोशब्दस्यार्थः किमाकृतिरेव, व्यक्तिरेव,
उताऽऽकृतिर्वा व्यक्तिर्वा, अथाऽऽकृतिश्च व्यक्तिश्च, किमुभयोः सम्बन्ध, उत समु-
दायः, किमाकृतिविशिष्टा व्यक्तिः, उत व्यक्तिविशिष्टाऽऽकृतिरिति । तथा किमाकृ-
त्यैव विशिष्टः सम्बन्धः, किं व्यक्त्यैव, आकृत्या वा व्यक्त्या वा, अथ समुदाये-
नाप्याकृतिविशिष्टया, व्यक्त्या, अथ व्यक्तिविशिष्टयाऽऽकृत्या, अथ परस्परवि-
शिष्टाभ्यां द्वाभ्यामिति । तथा किमाकृत्यैव विशिष्टः समुदाय इत्याद्यपि पूर्ववदेव
सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तं योजनीयम् ।
एवं किमाकृत्यैव विशिष्टः सम्बन्ध एव, उत व्यक्त्यैव, अथवाऽऽकृत्या वा,
व्यक्त्या वा, अथ समुदायेन किमन्यतरविशिष्टयाऽन्यतरया, अथोभाभ्यामित्येवं
समुदायविशेषणत्वपक्षाः पूर्ववदेव योज्याः ।
एवं किं सम्बन्धेनैव विशिष्टाऽऽकृतिः, अथ समुदायेनैवाथ विकल्पमानाभ्या-
मुत समुच्चिताभ्याम् । तथैतद्विशिष्टा किमाकृतिरेवाथ व्यक्तिरेव, अथ विकल्पिते
किं समुच्चिते किमिति । तथा किमाकृतिविशिष्टसम्बन्धविशिष्टा व्यक्तिरेव, अथ
व्यक्तिविशिष्टसम्बन्धविशिष्टाऽऽकृतिरेवाथ विकल्प उत समुच्चयः । एवं समुदाये-
नापि योज्यम् ।
तथा सम्बन्धविशिष्टव्यक्तिविशिष्टाकृतिरेवाथं संबन्धविशिष्टाकृतिविशिष्टा
व्यक्तिरेवाथ विकल्पोऽथ समुच्चयः । एवं समुदायविशिष्टपक्षाः कल्पयितव्याः ।
तथा किं जात्यैव विशिष्टेन सम्बन्धेन विशिष्टा व्यक्तिः, अथ व्यक्त्यैव
विशिष्टेन सम्बन्धेन विशिष्टा जातिरथ विकल्पोऽथ समुच्चयः । एवं समुदायेनापि
विशिष्टता योज्या । तथा किं सम्बन्धेनैव विशिष्टया जात्यैव विशिष्टा व्यक्तिरुतैवं-
विधया व्यक्त्यैव विशिष्टा जातिरथ विफल्पोऽथ समुच्चयः ।
एवं समुदायेनैव विशिष्ट्येत्यपि योजयितव्यम् । एवं जातिलिङ्गयोर्जाति-
कारकयोर्जातिसंख्ययोश्च प्रत्येकं जातिव्यक्तिपक्षविकल्पितसमुच्चितपक्षोत्थानं
दर्शयित्वा व्यक्तेर्लिङ्गादीनां च दर्शयितव्यम् । तथा लिङ्गसंख्यां लिङ्गकारक-