सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 679, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 679

३० ] प्रथमाध्याये तृतीयपादः ६२५
कल्पते, नान्येनेत्यत आह—प्रयोजनमिदं १ तत्प्रमाणमभिधीयतामिति । तदुच्यते ।
प्रत्यभिज्ञारूपप्रत्ययविभागाज्जायमानोभयप्रमेयरूपाविभागाद्वा वाक्यतत्समूहमात्र-
निबन्धनापन्नपदवर्णविषयत्वव्यपदेशाविभागाद्वा, तथोच्चारयितॄणां स्थानकरण-
प्रयत्नाविभागाद्वा, लक्षणविदां वा बहुतरानुगमनाविभागादिति हेत्वर्थविकल्पाः ।
प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् ।
एकशब्दोत्थितज्ञानग्राह्यत्वाच्चैकवाक्यता ॥ ९३४
यथाश्रुतगवादीनां याऽपि वाच्यान्तरे श्रुतिः ।
अर्थैकत्वाविरोधेन गुणमात्रान्यता परा ॥ ९३५
यथा हि वामना गावो नराश्चिपिटनासिकाः ।
कर्णप्रावरणाश्चान्ये नरार्थत्वाच्च न च्युताः ॥ ९३६
एवं सत्येव गोत्वादौ धर्मो यदि विलक्षणः ।
नैतावताऽर्थभेदोऽस्ति विशेषानभिधानतः ॥ ९३७
न च या एव देवानां गावः ता एवाऽवश्यं सर्वत्र वैदिकस्य गोशब्दस्य
वाच्या भवन्ति । मनुष्यगवीषु दक्षिणादिसाधनेषु सुतरां प्रयुज्यमानत्वात् ।
एवं हिरण्यपर्णत्वं मेरौ यदि वनस्पतेः ।
देवलोके ततः शब्दः किमर्थान्तरवाच्ययम् ॥ ९३८
यच्चैतद्घृतमस्माकं देवानां मध्विदं यदि ।
रसवीर्यादिभिस्तत्र न शब्दार्थोऽन्यथा भवेत् ॥ ९३९
न च सर्वाप्रसिद्धत्वे गम्यैतैकोऽपि कश्चन ।
तेनासिद्धैरसिद्धानां नास्त्यन्यत्वनिरूपणम् ॥ ९४०
अतोऽवश्यमेतेषामेव गवादीनां देवसम्बद्धानामुत्तानवहनप्रतिपादनमिति
वक्तव्यम् ।
अथ वा भूमिष्ठानामेव सतां केनापि गुणवादेन पृथिवीगोलक-त्रैलोक्यभ्रमणा-
दिना वा पुराणोक्तेन दृष्टिवशाद्यथैव वयमुपरि देवान्पश्यामः । एवमधो द्युपरि-
वर्तनादयमपि लोको देवैरुपरि दृश्यत इति, उत्तानवहनदृष्टिः । तस्माल्लोकवेद-
योरभिन्नाः शब्दार्था२ इति सिद्धे ।
आकृत्यधिकरणस्य पूर्वपक्षः
विचार्यते किमाकृतिः शब्दार्थः, अथ व्यक्तिरिति ।
द्वौ च पक्षावुप न्यस्तौ भाष्यकारेण यद्यपि ।
१ क. प्रयोजनमतत्प्रमाण । २. क. व्याकृत्या ।
४०