मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 584, कुल 804 में से
संदर्भ में पढ़ें५३० मीमांसादर्शनम् [ सू०
गवयादिषु नाङ्गानां सादृश्यं यन्निदर्शितम् ।
सत्यावयवसामान्यात्तदिहापीष्यते तथा ॥ ८१६
वाक्याधिकरणे चैतद्विस्तरेण निराकृतम् ।
तेनापोद्धारसंस्कारकल्पनाऽपि न युज्यते ॥ ८१७
अन्वाचक्षीत शास्त्रं चेच्छब्दान्सदपोद्धृतान् ।
एतेनैवाप्रमाणत्वमस्य माहेन्द्रजालवत् ॥ ८१८
अशिष्यत्वादशास्त्रत्वमेवं तावत्पदं प्रति ।
वाक्यानुशासनं नैव कृतं व्याकरणेन च ॥ ८१९
अर्थेन च प्रयुक्तानां शब्दानां संस्क्रियोदिता ।
वाक्यमेवंविधं चेष्टं न पदान्यर्थवर्जनात्१ ॥ ८२०
ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ ८२१
इति बहुप्रपञ्चमुक्तवा केवलस्य चाप्रयोगादर्थप्रयुक्तत्वं निराकृत्य वाक्या-
न्वाख्यानार्थमेव व्याकरणमपि व्याख्यानं युक्तमासीत् तदनाश्रयणात्तु सूत्रवार्तिक-
भाष्यकारवदेव पूर्वापरविरुद्धमभिदधानैष्टीकाकारैरपि सुतरां व्याकरणस्याप्रत्य-
यितपुरुषप्रणीतत्वं दर्शितम् ।
अतो विगानभूयिष्ठाद्विरुद्धान्मूलवर्जितात् ।
निष्फलाच्च व्यवस्थानं शब्दानां नानुशासनात् ॥ ८२२
ततश्च—स्वाध्यायाध्ययनं मुक्त्वा तत्प्रयोगश्च कर्मसु ।
शेषशब्दप्रयोगेषु न व्यवस्थोपयुज्यते ॥ ८२३
तेन सर्वैभाषितव्यम्, सर्वे साधव इति ।
अत्रानुमानप्रयोगाः—
गावीगोण्यादयः शब्दाः सर्वे गोत्वस्य वाचकाः ।
वृद्धैस्तत्र प्रयुक्तत्वाद् गौरुसेत्येवमादिवत् ॥ ८२४
एवं साधुत्वमेतेषां सर्वेषामर्थसाधनात् ।
श्रौत्रत्वान्नापशब्दत्वं पूर्वदृष्टान्तदर्शनात् ॥ ८२५
अनादित्वं च सर्वेषामवध्यनवधारणात् ।
वक्तुर्वक्तुः पुरो वृत्तेः शक्यं वक्तुं गवादिवत् ॥ ८२६
१ क. न्यर्थंवज्जनात् ।