मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 582, कुल 804 में से
संदर्भ में पढ़ें५३८ मीमांसादर्शनम् [ सू०
उत्पाद्यश्चैव संस्कारं कार्यपक्षे भवेदयम् ।
ततश्च सुतरां प्राप्ता प्रयोगोत्पत्त्यशाश्वता ॥ ७८९
व्याकरणप्रक्रियानुगृहीतेन वैयाकरणेनोत्पाद्यमानेषु साधुशब्देषु नित्यवेद-
मूलत्ववेदाङ्गत्वनिराकरणं स्वयमेवाऽऽपादितम् ।
अथ व्याकरणोत्पन्नैः शब्दैर्वेदोऽपि निर्मितः ।
ततो व्याकरणस्येव वेदस्याप्यप्रमाणता ॥ ७९०
शब्दश्चोत्पाद्यमानत्वे क्षणान्न स्यात्क्षणान्तरे ।
तादृशस्य च संस्कारो न शक्यो नोपयुज्यते ॥ ७९१
तस्मादनियमं मुक्त्वा नित्यः संस्क्रियते यदि ।
विक्रियाख्योऽपि संस्कारस्ततो नैवाऽस्य संभवेत् ॥ ७९२
विना व्याकरणादाप्तिः सिद्धा श्रोत्रसमाश्रया ।
दृष्टार्थेषु शब्देषु अदृष्टार्थनियमस्यासंभवोपपादनम्
अदृष्टार्थस्तु संस्कारो विध्यभावान्न गम्यते ॥ ७९३
दृष्टार्थेषु च शब्देषु नादृष्टेन प्रयोजनम् ।
न हीष्टं भोजनार्थीनां व्रीहीणां प्रोक्षणात्फलम् ॥ ७९४
कर्मप्रकरणाम्नाता न च व्याकरणक्रिया ।
येनाऽपूर्वप्रयुक्तानां शब्दानां संस्कृतिर्भवेत् ॥ ७९५
हन्त्यादिविधिवन्नापि संभवी व्याक्रियाविधिः ।
पौरुषेयं कथं वस्तु विदध्याच्छाश्वतो विधिः ॥ ७९६
तेनानारभ्यवादेऽपि विधिर्नैवास्ति तादृशः ।
अनारभ्य विधित्वे च न कर्मार्थत्वसंभवः ॥ ७९७
ऐकान्तिकं हि संस्कार्यं यत्क्रतौ स्यात्स्रुवादिवत् ।
तद्द्वारेण ऋतुप्राप्तिर्न लोकव्यभिचारिणः ॥ ७९८
लोकवेदगतत्वाच्च शब्दानां व्यभिचारिता ।
अतो न व्याक्रिया गच्छेत्तदुपस्थापितं क्रतुम् ॥ ७९९
आकाशेऽवस्थितः शब्दः संस्कर्तुं शक्यते कथम् ।
नित्यत्वान्मूर्त्यभावाच्च व्योमाश्रितविभुत्ववत् ॥ ८००
वर्णसंस्कारमात्रं च यदि व्याकरणाद्भवेत् ।
प्रत्याहारेण तत्सिद्धेर्नोत्तरेण प्रयोजनम् ॥ ८०१
समुदायस्तवस्तुत्वान्नैव संस्कारमर्हति ।
प्रत्येकं च भवेद्यद्वदग्निधर्मः प्रतीष्टकम् ॥ ८०२