मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 562, कुल 804 में से
संदर्भ में पढ़ें५०८ मीमांसादर्शनम् [ सू०
न तावत्साध्वसाधुत्वे जातिगुणाद्यात्मकसामान्यरूपेण सर्वव्यक्त्यनुगते विज्ञा-
येते, यदालम्बनो द्वावेव विधिप्रतिषेधावनुमीयेयातां-साधुभिर्भाषित, नासाधु-
भिरिति ।
अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः ।
न त्ववान्तरसामान्ये केचिद्गर्गद्वयस्थिते ॥ ६९०
तेन यद्येकैका व्यक्तिर्विधीयेत, प्रतिषेध्येत वा ततो यावत्पदं वाक्यान्य-
नुभिमानस्त्रैलोक्यपूरणादप्यधिकानि स्मृतिमूलभूतानि वेदवाक्यान्यनुमिमीते । न
च तावतां कोटिशतभागोऽप्याम्नातुं शक्यते । न चानाम्नातस्य स्मृतिमूलत्वम् ।
नित्यानुमेयश्रुतिमूलप्रतिषेधात् ।
न च वाचकत्वावाचकत्वनिबन्धनौ विधिप्रतिषेधौ संभवत-सर्वेषां वाच-
कत्वात् ।
वाचकैर्भाषितव्यं हि प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्च नाऽप्राप्तेरवकल्पते ॥ ६९१
न ह्युदकं पिबेदग्निं न पिवेदिति च विधिप्रतिषेधौ संभवतः । अवश्यं च
व्याकरणस्मृतिमूलभूतसाधुविधिश्रुतिः असाधुप्रतिषेधश्रुतिः उभयं वा संयोग-
पृथक्त्वात् कल्पनीयम् । त्रिष्वपि च पक्षेषु साध्वनुशासनमात्रमेव सौकर्यादाश्रितम् ।
यदि ह्यपशब्दप्रतिषेधमूलं व्याकरणम्, ततस्तेषां बहुत्वादव्यवस्थितरूपत्वाच्च न
स्वरूपमवगन्तुं शक्यत इति 'पञ्च पञ्चनखा भक्ष्या' इति स्मृतिन्यायेनानुगतविपरीत-
भाषणप्रतिषेधोऽर्थापत्तिसिद्धः स्मर्यते । साधुविधिपक्षे तु त एव स्मर्त्तव्या । उभय-
पक्षे तु तदनुगमादेवेतरसिद्धेः प्रतिषेधविषयज्ञानोपपत्तिः । स एष व्याकरणस्य
न पक्षत्रयेऽप्येकानुगमनिवन्धनत्वात्कथंचित्संक्षेपोऽवकल्पते । ननु प्रतिशब्दं विधि-
प्रतिषेधावकॢप्तिः, अनन्तवाक्यपाठासंभवात् । इष्टासंभवदर्शनार्थमेव होलाकाधि-
करणेऽभिहितम् । न तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति । तस्माद-
संभवन्मूलत्वादपस्मृतिः ।
अथ प्राप्तश्च योऽर्थः स्यान्न स शास्त्रस्य गोचरः ।
सिद्धः शब्दप्रयोगश्च लोकादेवार्थलक्षणः ॥ ६९२
कात्यायनवार्तिकावलम्बनेन शङ्का
अथार्थलक्षणत्वेऽपि शास्त्रेण धर्माय प्रयोगनियममात्रप्रायोगोत्पत्तिशास्त्रत्वं
स्यादिति । तदनुपपन्नम् । नियमा१विषयासंभवात् ।
यस्य ह्यनियता प्राप्तिस्तच्छास्त्रेण नियम्यते ।
नित्यप्राप्तप्रयोगस्तु न शब्दो नियमास्पदम् ॥ ६९३
१. क. (टिप्पण्यां) प्रयोगनियमेति पाठः ।