मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 561, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५०७
तथा हि—लोकप्रसिद्धशब्दार्थवशं शास्त्रं प्रवर्तते ।
अतो न लौकिकेष्वस्मात्साध्वसाधुत्वनिर्णयः ॥ ६८३
वाक्यार्थेषु हि श्रुतिस्मृत्याचारविरोधदर्शनाद्वलाबलामानुपूर्व्येणावधृतम् इह
न तु, विपरीतक्रमत्वात् ।
लोकादेवाधिगन्तव्या शब्दानां साध्वसाधुता ।
वाचकावाचकत्वेन सा च नित्यं व्यवस्थिता ॥ ६८४
ध्वनिमात्राप्रसाधूनि वर्णा वा केवलात्मनाम् ।
संघातॊऽर्थानपेक्षो वा मातृकाद्युपदेशवत् ॥ ६८५
तेन भेरीशङ्खादिशब्दा गकारकादयः प्रत्येकम्, तद्वर्गा वाऽनर्थकत्वादपशब्दा
इति लोकव्यवहारादेवार्थं न साधयन्तीत्यसाधवो गम्यन्ते । गाव्यादयः पुनर्ग-
वादिवदेव साधयन्त्यर्थम्, तेभ्योऽपि वा शीघ्रतरं प्रसिद्धतरत्वादर्थप्रतीतिमुत्पाद-
यन्तीति, सत्यप्येकविषयानेकशब्दत्वे हस्तकरपाण्यादिशब्दवदर्थसाधनत्वात्साधुत्वे-
नावधार्यन्ते ।
ततश्चावाचकत्वेन यद्यसाधुत्वमुच्यते ।
तस्य लोकविरुद्धत्वान्न ग्राह्यत्वं प्रतीयते ॥ ६८६
अदृष्टविषया चेत्स्यादेतेषां साध्वसाधुता ।
वेदवाक्यैरनिर्दिष्टा न साऽस्त्यन्यप्रमाणिका ॥ ६८७
प्रत्यक्षेण तावदुभयत्राप्यविशेषेण वर्णाः शुद्धाः प्रतीयन्ते । न तद्गते, तत्स-
मुदायगते वा साधुत्वासाधुत्वे । न वाऽनुभूतसम्बन्धादनुमीयेते । तन्निराकर-
णाच्च तत्पूर्वकपुरुषवचननिराक्रियाऽपि सिद्धा । वेदवचनं पुनर्वस्तुस्वरूप-तद्गत-
गुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किंचित्प्रमाणत्वेन संभवति ।
साधुत्वासाधुत्वयोरनुष्ठानात्मकत्वाद्विधिप्रतिषेधविषयत्वम् । अभिधानकरणभूत-
योर्विधेयत्वसंभव इति चेत् ?
न । प्रतिशब्दमनन्तविधिप्रतिषेधवाक्यानुमानकल्पनानुपपत्तेः ।
यो हि प्रतिपदं पाठं साधूनां नाध्यवस्यति ।
विधिवाक्यानि तावन्ति स कथं प्रतिपत्स्यते ॥ ६८८
अपशब्दाश्च शब्देभ्यो भूयस्त्वेन व्यवस्थिताः ।
न कलञ्जादिवत्तेषां प्रतिषेध्यत्वसंभवः ॥ ६८९
व्रीह्यादीनि हि कलञ्जादीनि च नियतजातिगुणादिरूपेण परिज्ञायमानप-
रिमाणत्वाद्विधिप्रतिषेधगोचरीभवन्ति१ न तु गवादिगाव्यादीनां जातिरूपेण,
व्यक्तिरूपेण वा विधिप्रतिषेधावुपपद्येते ।
१. पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च
पञ्चमः । वा० रा० कि० का० सर्गं १७ । श्लो० ३७ । अभिधाभावनेति मु० पु० पा०