सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 557, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 557

२३ ] प्रथमाध्याये तृतीयपादः ५०३
तुल्यं तु कर्तृधर्मेण ॥ २३ ॥
शा० भा०-यथा कर्तर्यव्यवस्थितं¹ लिङ्गं श्यामादि न पदार्थैः संवादमुपैति,
तद्वद्देशलिङ्गमव्यवस्थितम् । कृष्णमृत्तिकाप्रायेऽप्यन्ये न कुर्वन्ति । तथाऽन्य-
लिङ्गेऽपि² कुर्वन्ति । तस्मान्न देशतो व्यवस्था । प्राचीनप्रवणं तु श्रुत्या नियतं
वैश्वदेवस्य ॥ २३ ॥
इति सप्तमं होलाकाऽधिकरणम् ॥ ६ ॥
भा० वि०--देशकत्वेऽपि तद्विशेषणानामनवस्थितत्वेन श्यामत्वतुल्यत्वं दर्शयितुं
'तुल्यं तु कर्तृधर्मेण' इति सूत्रं व्याचष्टे-यथेत्यादिना । यथा श्यामत्वादिकर्तृ-
लिङ्गमव्यवस्थितत्वाद्धोत्रैधुकादिभिः पदार्थैः सह संवादमुपैति, न तन्नियत-
सहभावि भवति, तद्वद्देशविशेषणमपि प्राक्त्वकृष्णमृत्तिकाप्रायत्वादि न होलाका-
दिभिस्सह संवादमुपैति अनवस्थितत्वादिति योजना, कृष्णमृत्तिकाप्रायत्वादेरन-
वस्थितत्वमुपपादयति-कृष्णमृत्तिकेति । अन्ये न कुर्वन्तीति । केचन कुर्वन्ति
अन्ये न कुर्वन्तीत्यर्थः । देशविशेषणस्याव्यवस्थितत्वे फलितमाह - तस्मादिति ।
न व्यवस्था होलाकादीनामित्यर्थः । यत्तु प्रवणवदिति तत्राह - प्राचीनेति ।
प्राचीनप्रवणत्वादिप्रत्यक्षश्रुत्या वैश्वदेवस्य नियमित्यर्थः । तेन कर्तृविशेषणस्य
कर्माङ्गविशेषणस्य वा व्यवस्थितस्य कस्यचिदभावान्न तद्वाच्यपदयुक्तयानुमीय-
मानया श्रुत्या होलाकादीनां व्यवस्थितधर्मत्वसिद्धिरितिभावः ॥ २३ ॥
त० वा०-- 'तुल्यं तु कर्तृधर्मेण' तच्चिह्नमनवस्थितम् ।
दिक्कृष्णमृत्तिकाप्रायप्रभृतिव्यभिचारतः ॥ ६७९
प्राग्देशो यो हि केषांचित्सोऽन्येषां दक्षिणापथः ।
तथोदक्प्रत्यगित्थेवं नैकरूप्येण गम्यते ॥ ६८०
मृत्तिकाद्यपि यच्चिह्नं तत्रान्यत्र च तत्समम् ।
होलाकादिविधिस्तस्मान्न तेनापि विशेष्यते ॥ ६८१
पुरुषापेक्षयाऽऽचारस्तस्मिन्नपि न दृश्यते ।
अन्यस्मिन्नपि दृष्टश्च तस्माद्देशोऽप्यकारणमिति ॥ ६८२
इति सप्तमं होलकाधिकरणम् ॥ ७ ॥
न्या० सु०--भाष्ये कृष्णमृत्तिकाप्रायग्रहणं प्रावत्त्वादेरुपलक्षणार्थम् । प्राचीनप्रवणोदाहरणं
च प्रागुदक्प्रवणस्थापोति व्याचष्टे - प्रागिति । तुल्यं तु कर्तृधर्मणेति सूत्रमव्यवस्थिततुल्य-
त्वाभिप्रायेण व्यभिचारतुल्यत्वाभिप्रायेण व्याचष्टे - तुल्यं त्विति दिक् । कृष्णमृत्तिकाप्राय-
१. ब. व्यस्थितश्याम । २. ब. एतद्वाक्यं नास्ति ।