मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 554, कुल 804 में से
संदर्भ में पढ़ें५०० मीमांसादर्शनम् [ सू०
भाष्यमते दूषणम्
यत्तु मधुराभिमप्रस्थितो माथुर इति भाष्यकारेणोक्तं तत् 'तद्गच्छति पथि
दूतयोः' इति वा दूतविषयं कल्पयितव्यम् । अप्रत्ययितोक्तत्वाद्वोपेक्षितव्यम् ।
सर्वस्मिन्नपि प्रस्थिते तद्धितस्मरणाभावात् ॥ २१ ॥
न्या० सु०—देशसंयोगनिमित्तायामित्यादिभाष्येण देशसंयोगविशेषव्यभिचारेऽपि देश-
संयोगमात्रस्याव्यभिचारान्निमित्तत्वाभिधानात्थैवैतत्सूत्रं व्याख्यातम् । तत्र भूतादिशब्द-
दर्शनात्कालविशेषावच्छेदेन देशसंयोगस्य विशेषणरूपत्वोक्ता प्रतिभाति । सा च देशसंयोग-
निमित्तानां तद्धितानां कालविशेषविषयत्वेनास्मृतेरयुक्तेत्य शङ्क्याह—सम्बन्धैरिति ।
भूतशब्देन तदागमनहेतुकः सम्बन्धोऽभिप्रेतः । वर्तमानशब्देन निवासहेतुकः । गर्भसम्भव-
लक्षणभवहेतुकस्य प्रसव लक्षणजातत्वहेतुकस्य चोभयरूपतोक्ता । भविष्यच्छब्देन बहुशब्दः
सूचितः प्रस्थानहेतुकोऽभिप्रेतः । श्लोकं व्याचष्टे – सोऽप्येति । नन्वेवं सति देशसंयोग-
मात्रनिमित्ता समाख्याप्यव्यभिचाराच्छक्नोत्येव कर्तारं विशेष्टुमित्याशङ्कयाह - न
चैनामिति । चिरनिर्गतस्य पुरुषस्य पुत्रादीनां पूर्वदेशगर्भसम्भवस्याप्ययोगादित्याशयः ।
अनेन यस्य त्वतोऽन्यतमः सम्बन्धो नास्ति । न स माथुर इति दृष्टान्तभाष्यं सूचितम् ।
यस्य चिरनिर्गतपुरुषपुत्रादेरतोऽन्यतमः सम्बन्धो नास्ति, न स प्राच्यसमाख्यः । अथ
च होलाकादीन्करोतीति समाख्याव्यभिचारप्रतिपादनं विवृतम् । तस्मादित्युपसंहारभाष्यं
व्याचष्टे—इतीति ।
ननु मथुरामप्रस्थित इति भाष्यं किमित्युपेक्षितमित्याशङ्कयाह—यत्त्विति । नन्वेवं
दूतविषयत्वेन कस्मान्न व्याख्यातमित्याशङ्कयाह-अप्रत्ययितेति । प्राग्देशमभिप्रस्थितो
दूतः प्राच्योऽनेन दृष्टान्तेनापाद्येत । न दौत्ये व्यापृतस्य होलाकाद्यनुष्ठानं दृश्यत
इत्याशयः ॥ २१ ॥
भा० प्र०—पूर्वोक्त शङ्का के निराकरण प्रसङ्ग में सूत्रकार ने कहा है कि मथुरावासी
जब मथुरा में ही निवास करता है, उस समय जिस अर्थ में उसको माथुर कहा जाता
है, पूर्व देश में जाकर निवास करने के समय उस अर्थ में उस व्यक्ति के लिए माथुर
शब्द का प्रयोग नहीं होता है । क्योंकि उस स्थान में उत्पन्न (तत्र भवः) इस अर्थ में
तद्धित प्रत्यय होता है, वैसे ही वहाँ से आया (तत आगतः) इस अर्थ में भी तद्धित
प्रत्यय होता है । अतः, प्राच्य देश में निवास के समय उसको मथुरायाः आगतः अर्थात्
मथुरा से आया है, इस अर्थ में ही माथुर शब्द का प्रयोग होता है, अतः पूर्व सूत्र से
प्रदर्शित आशङ्का समीचीन नहीं है । इसलिए दाक्षिणात्य आदि देश की संज्ञा के आधार
पर आचार की देश व्यवस्था नहीं हो सकती है ।
स्यात् हि=अवश्य ही होगा, यौगाख्या=प्रकृति प्रत्यय से उत्पन्न संज्ञा, माथुरवत्=
माथुर शब्द के समान है ।