सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 543, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 543

१६ ] प्रथमाध्याये तृतीयपादः ४८९
भयस्वरूपनिरूपणपर्य्यनुयोगत्रासाद्भावार्थाधिकरणसिद्धान्तं विनाशयन्नेवमाह भाव
इति वाऽनाख्येयः स्वधर्मेणान्यदतः शब्दज्ञानात्कारकवदिति । तेन यः कश्चिदा-
ख्यातप्रत्ययार्थतत्त्वं जिज्ञासमानः पृच्छति ? कः पुनरयं भावः भावना चेति ?
तं प्रत्यनन्यशब्दाख्येयत्वात् केवलप्रत्ययप्रयोगदर्शनाभावाच्च सर्वधात्वर्थ-
सामान्यवचनकरोतिपरलिङाद्युच्चारणमात्रेणैवोत्तरं दास्यते कुर्याच्छब्द इत्यर्थः ।
सर्वश्चाऽऽख्यायमानोऽर्थ आकृतिरूपेण वाऽऽख्यायेत व्यक्तिरूपेण वा । व्यक्त्या-
कृतिगोचरातिक्रान्तिश्च किलाऽऽख्यातशब्देनोपायरहितत्वादनाख्येयोऽस्यार्थ इति ।
तदेव किलानेनापि ग्रन्थेनोक्तं भाष्यकारेण न तस्याऽऽकृतिवचनता न्याय्या, न
व्यक्तिवचनतेति । विधानशब्दो हि सूत्रे पूर्वं प्रकृतः तमेव तच्छब्देन निर्दिश्य
व्यक्त्याकृतिवचनत्वादपनयति ।
कुर्यादित्युरुयमानो हि करोमीति प्रपद्यते ।
न विधेर्भावनाया वा सामान्यव्यक्तिरूपताम् ॥ ६६०
तन्निराकरणम्
तदिदमसंबद्धमेवानुपपत्तिकं च श्रुतिसामान्यमात्रेणान्यार्थमेव सचतुःशृ-
ङ्गादिमन्त्रवद्भाष्यकाराभिप्रेतार्थत्यागेन स्वप्रज्ञाविलसितं प्रकाशयताऽन्यस्मिन्ने-
वार्थे योजितम् । देशाचारसर्वधर्मोपपत्तिविचारणार्थोऽयं ग्रन्थः । स यदि
पूर्वकृतया व्याख्ययोपपदनिराकरणविषयत्वेन वर्ण्यते, तत एतत्सूत्रव्याख्यानेन न
संबध्यते यथोक्तन्यायमार्गेण । यदि तु तत्परित्यागेनाऽऽख्यातप्रत्ययार्थानामना-
ख्येयत्वापत्तिमेव व्यक्त्याकृतिरहितार्थत्वेन वर्ण्येत् ततोऽत्यन्तासंबन्धानुपयुज्य-
माननिरुपपत्तिकार्थत्वेन हेय एव स्यात् ।
तथा हि-यस्मादाख्यातशब्दस्य न व्यक्त्याकृतिवाचिता ।
तस्मात्तद्विहितं कर्म सर्वार्थमिति विस्मयः ॥ ६६१
यदि नाम लिङादिप्रत्ययो भावनाया विधेर्वा व्यक्तिमाकृतिं वा वदेत् ततो
होलाकादयः प्रतिनियतदेशधर्माणो भवेयुः । यतस्तु व्यक्त्याकृतिविनिर्मुक्तोऽव्यपदे-
श्योऽर्थः तस्मात्तद्विहितधात्वर्थविषयः सर्वपुरुषधर्म इत्येवं नीयमानमसंबद्धोदाहरणे
ज्येष्ठमेव स्यात् ।
अनाख्येयत्वमुक्त्वा च पर्यायैः स्वविकल्पितैः ।
अन्वाख्यानं कृतं तच्च पूर्वोक्तेन विरुध्यते ॥ ६६२
विध्युपदेशकत्र्तव्यताभावनाशब्दानां ह्यत्यन्ताभूतमेव बहुभाषित्वाख्यापना-
परपर्य्यायत्वमध्यारोप्यऽऽचक्षाणेन स्वयमनाख्येयत्वमतीव स्थापितम् ।