सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 542, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 542

कुतः—सर्वं नामपदं तावद्व्यक्त्याकृतिनिबन्धनम् ।
यद्यदेवानुमीयेत नैकार्थमपि तद्भवेत् ॥ ६५६
न तावत्प्राच्यत्वदाक्षिणात्यत्वादिजातिः प्रतीच्योदीच्यादिव्यक्तिव्यावृत्ता
सर्वप्राच्यादिव्यक्तिष्वनुगता काचिदुपपद्यते । यद्वचनमुपपदं होलाकाद्यधिकारं
विशिष्यात् । यास्तु मनुष्यत्व-ब्राह्मणत्वादिजातयः तेषु विद्यन्ते, ताः सर्वदेशवासि-
व्यक्तिष्वविशिष्टा इति, नाऽऽचारानुरूपविशेषणसमर्थत्वेन ज्ञायन्ते ।
व्यक्तिवाचि तु यन्नाम तदेकत्रैव वर्तते ।
देवदत्तादिवत्तेन न सिध्येत् कर्तृनैकता ॥ ६५७
न ह्यनन्तभेदानां प्राच्यादिपुरुषव्यक्तीनां व्यस्तसमस्तानां सम्बन्धानुभवा-
सम्भवादेकमभिधानमवकल्पते ।
एतेन गुणक्रियाजातिविशिष्टपुरुषव्यक्तिवचनत्वं प्रत्युक्तम् । न हि काश्चिदपि
गुणक्रियाजातिव्यक्तयः प्रतिदेशव्यवस्थितपुरुषव्यक्त्युपलक्षणयोग्याः संभाव्यन्ते ।
सर्वत्र तत्रापि व्यावृत्त्यविशेषात्१ ।
व्यक्त्याकृतिविनिर्मुक्तः पदार्थो न च विद्यते ।
यमाश्रित्य प्रवृत्तं स्यादधिकारिविशेषणम् ॥ ६५८
कस्यचिन्मतस्योपन्यासः
एतदेव प्रतिपादयन् भाष्यकार आह । शक्तमात्रपुरुषाधिकारप्रवृत्तविधान-
विशेषणं येनोपपदेनानुमीयमानेन क्रियते ‘न तस्याऽऽकृतिवचनता न्याय्या, न
व्यक्तिवचनते’ति । न ह्येते होलाकाद्याः कांचिदाकृतिमनुविधीयन्ते, न व्यक्तिम् ।
न हि यावत्सु पुरुषेष्वेतेऽवस्थिताः तावतामेकेनापि व्यपदेशेनोपसंग्रहः संभवति ।
केषांचित्तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति ग्रन्थस्तेषामभिप्रायः ।
यथैव ‘जातिं तु बादरायणोऽविशेषात् ६-१-८’ इति सूत्रकारः स्वर्गकामपदं
यौगिकमप्युद्दिश्यमानपुंस्त्वविशेषणासंभवात्फलार्थिमात्रमनुष्यजातिविषयोपपत्तेश्च
सामर्थ्याक्षिप्तजातिमात्राधिकारं वक्ष्यति ।
तथेहापि फलार्थित्वकर्तृशक्त्यावबोधनात् ।
देशधर्मेषु सर्वेषु नरजातेरधिक्रिया ॥ ६५९
कश्चित्पुनराख्यातशब्दार्थमुपवर्णयन्निमं ग्रन्थपाठं दूषयित्वा, अपूर्वमेव समर्थ-
यमानः सूत्रगतयावच्छ्रुतविधानशब्दजनितभ्रान्तिर्विधिभावनयोश्च भेदमपश्यन्तु-
१ क. व्यावृत्तेरिति पाठः ॥