सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 529, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 529

१३ ] प्रथमाध्याये तृतीयपादः ४७५
तथाऽपि तर्कवत्तेषां छन्दस्त्वं नोपपद्यते ।
मन्त्रब्राह्मणयोरेव च्छान्दसा विधयः स्थिताः ॥ ६१६
यथैव 'विधिर्विधेयस्तर्कश्च वेदः' (पा गृ. सू. ६।१६) इत्येतस्मिन्दर्शने सति
समस्त२वैदिकतर्कोपसंहारात्मिका मीमांसाऽपि वेदशब्दवाच्या भवति, न३
त्वमन्त्रब्राह्मणरूपत्वाच्छन्दोनिबन्धनानि कार्याणि लभते, तथा कल्पसूत्राण्यपीति
विधिपर्यायप्रयोगशास्त्रत्वाभावः ।
इतिहासपुराणाभ्यां सा त्वनैकान्तिकी स्मृता ।
या त्वेषां ब्रह्मयज्ञेऽपि विधानान्नित्यतोदिता ॥ ६१७
इतिहासपुराणानि कल्पानिति हि सा श्रुतिः ।
तस्मात्कृत्रिममध्यत्र विद्यास्थानं ग्रहीष्यते ॥ ६१८
वेदार्थोपसंहारस्य कल्पसूत्रानपेक्षैः कर्तुमशक्यत्वात्, अवश्यं च यावद्वेदम्,
यावत्कर्मप्रयोगं च क्रियमाणैरपि विद्यास्थानाशून्यतार्थं कैरपि कल्पसूत्रैर्भवितव्यम् ।
वेदार्थकल्पनात्कल्पो नित्ययैवाऽऽख्ययोच्यते ।
जपे च नित्यकर्तव्ये नित्यमेव विधीयते ॥ ६१९
कर्माभ्यासाभिसंधानं विध्यर्थश्चात्र गम्यते ।
स चार्थो नित्य एवेति नाऽऽपतेद् ग्रन्थनित्यता ॥ ६२०
यः पुनर्वेदसंवादः स तत्पूर्वतयेष्यते ।
तदर्थानुगमाच्चैषां न स्वतन्त्रप्रमाणता ॥ ६२१
वेदशब्दाभिधेयत्वं नैषामध्येतृषु४ स्थितम् ।
षडङ्गमेक इत्येतन्न च सिद्धान्तभाषितम् ॥ ६२२
संवादत्वानुवादत्वमेकस्यैकान्तनिश्चितम् ।
ऐकान्तिकविधित्वाच्च ब्राह्मणे तन्न युज्यते ॥ ६२३
कल्पादावनुवादत्वमापन्नं परिशेषतः ।
न च शाखान्तरन्यायस्तुल्याध्येतृकतावशात् ॥ ६२४
सर्वशाखाविधित्वं हि सिद्धमध्येतृभेदतः ।
प्रतिशाखं तु ये कल्पास्तदर्थप्रतिपादकाः ॥ ६२५
समानाध्येतृकत्वात्ते न कदाचिद्द्विधिक्षमाः ।
विवृण्वन्तश्च दृश्यन्ते हेतुभिर्ब्राह्मणोत्थितैः ॥ ६२६
१. विधिः—ब्राह्मणम् । विधेयो—मन्त्रः । तर्को मीमांसेति सूत्रार्थः ।
२ क. समवैहिकतर्कापसंह। ३ क. तत्त्वमन्त्रः । ४. क मध्येतृषु ।