मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 528, कुल 804 में से
संदर्भ में पढ़ें४७४ मीमांसादर्शनम् [ सू०
प्रामाण्यकारणं अनूद्य दूषयति—यच्चेत्यादिना । वेदवाक्यमिश्राणां कल्पसूत्राणां
समाम्नानात् इति नान्तरीयकतवमुपपादिकम्, आचार्यवचनं प्रमाणमिति श्रुतिर्न
मशकादिवचनप्रामाण्यपरा किन्त्वन्यपरेत्याह—यत्त्वित्यादिना । विध्यन्वयं
विना कथमर्थवादतेति पृच्छति—कथमिति । उत्तरम्—विध्यन्तरं हीति ।
तथापि स्वार्थाभिधानद्वारत्वात् स्तुतेराचार्यवचनप्रामाण्यसिद्धिरित्याशङ्क्य
श्रुतिसामान्यमात्रत्वान्नैवमित्याह—अत्रेति । अस्याधिकारिणः व्युत्पन्नोऽव्युत्प-
न्नोऽपि चायमाचार्यशब्दो व्याख्यात्राध्यापयितृविषयः, न कल्पसूत्रकारविषय इति,
परिहारान्तरमाह—यद्वेति । यत्प्रमाणभूतमार्यवचनं तदपेक्ष्येयं श्रुतिरिति
योजना । पृच्छति—कतरदिति । आचार्यवचनं हि सर्वं प्रमाणमिति भावः ।
व्याख्यात्रादिवचनमपि संभवन्मूलप्रमाणकमेव सत्यं न सर्वम् इत्युत्तरमाह—
यत्प्रमाणमिति । तदनेनाचार्यवचनं कथं नामयं श्रोता आद्रियेत ? इत्येवमर्थेयं
श्रुतिरिति व्याख्यातम् ॥ १३ ॥
त० वा०—अतश्च वाक्यशेषोऽपि तस्मिन्नेवोपयुज्यते ।
बहवो वाक्यशेषा हि येषां लोकेष्वसंभवः ॥ ६११
अबुद्धिपूर्वतासिद्धिस्तेन वेदस्य तैरपि ।
'बृहस्पतिर्वै देवानामुदगायात् इन्द्रो वृत्रमहनत्'१, प्रजापतिर्वपामात्मन
उदखिदत्, गावो वा एतत्सत्रमासत, तासां दशसु मास्सु शृङ्गाण्यजायन्तेत्यादयः
कथमिव बुद्धिपूर्वककारिणोऽर्थवादाः प्रणीयेरन् ।
नित्यत्वे सति येषां हि क्लेशेन विधियोजना ।
तान् कृत्वाऽध्यापयन् कर्ता सुसमत्वं व्यजेज्जडैः ॥ ६१२
न च तादृशवाक्यशेषमुद्राऽपि कल्पसूत्रादिग्रन्थेषु काचिदस्ति, यद्बलेना-
कृतकत्वमेषामवसीयेत ।
विधिशून्यतया चैषां विहिताऽऽख्यातरूपता ।
गम्यते न त्वपूर्वार्थप्रतिपादनशक्तता ॥ ६१३
वर्तमानाप्रदेशोऽपि त्वर्थवादप्ररोचितः ।
विधित्वं लभतेऽन्यत्र कल्पसूत्रेषु नास्ति सः ॥ ६१४
पञ्चमेन लकारेण विधिर्यश्छन्दसि स्मृतः ।
मन्त्रब्राह्मणभिन्नत्वात्सोऽप्येतेषु न युज्यते ॥ ६१५
यद्यपि षडङ्गमके इत्यनेन कल्पसूत्राणां वेदत्वं भवेत् ।
१ क. महत्प्रजा ।