सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 440, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 440

३८८ मीमांसादर्शनम् [ सू०
नन्वमनुष्यत्वात्तस्या निषेधाभावेऽपि पाण्डवानां मनुष्यकुन्तीमाद्रीयोनिजत्वेन मनुष्य-
त्वान्निषेधो भविष्यतीत्याशङ्कयाह—सा चेति ।
लक्ष्मीश्चैषा पूर्वमेवोपदिष्टा भार्या चैषां द्रौपदी दिव्यरूप ।
कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यथा दैवयोगात् ॥
इति द्वैपायनेनैव तस्या स्त्रीत्वव्युत्पादनाच्छ्रिया सर्वसेव्यत्वान्ननिषेध इत्यर्थः। द्वैपाय-
नीयस्य वेदिमध्योद्भूतवाद्यभिधानस्यानिषिद्धत्वायामनुष्यत्वोपपादनाथंतमभियुक्तवचनेन
द्रढयितुमाह—अत एव चेति ।
यदि मे पतयः पञ्च वरमिच्छामि याचितुम् ।
कौमारमेव तत्सवं सङ्गमे सङ्गमे भवेत् ॥'
इति पूर्वजन्मनि तया च पञ्चकृत्वः पतिं मे देहीति याचितेनेश्वरेण पञ्च ते पतयो
भविष्यन्तीत्युक्ते पुरुषसंयोगजयोनिक्षताभावरूपं कौमारं प्रार्थितमित्यभिधानात्प्रत्यहमक्षत-
योनित्वरूपं कन्यात्वं तस्याः सूचितमिति मत्वा जगाद विप्रर्षिः कृष्णद्वैपायन इत्युक्तम् ।
कृष्णेनापि कर्णं भेदयितुं पाण्डवास्त्वामेव मातृसम्बन्धाज्ज्येष्ठं भ्रातरं मत्वा राज्ये
ऽभिषेक्ष्यन्तीत्यादिप्रलोभयित्वा 'षष्ठे च त्वामहनि द्रौपद्यागमिष्यतीत्यभिधानादमनुष्यत्वेना-
निषिद्धत्वं तस्याः सूचितमित्याह—अत एव चेति । यस्त्वश्रद्दधानतयेममागमिकमपि
परिहारं नानुमन्यते, तं प्रत्येकपत्नीत्वमेव पञ्चानामसिद्धमिति दर्शयंन्नन्यथा परिहार-
द्वयमाह—अथ वेति । निश्छद्रत्वायापारमार्थिकोऽपि साधारणव्यवहारः पाण्डवानां
नीतिशास्त्रानुसारात्सम्भवन्तीति दृष्टान्तेनोपपादयन्नाह—यथेति । रजस्वलायाः स्वयं
समागमनस्यात्यन्तमसम्भवाद् दुःशासनस्य चाप्रभुत्वाद् धृतराष्ट्र एव मामानयतीति ख्यापयितुं
रजस्वलावेषं कृतवतीत्यर्थः । आनयनख्यापनप्रयोजनं सपुत्रकस्येत्युक्तं दुःशासनस्यानेतृत्व-
ख्यापनेनाऽयशोऽतिशयोत्पादनं चशब्देन सूचितम् । अन्याय्यानमानमिति पाठे दुःशासनो मां
प्रत्यन्याय्यं करोतीत्यस्मिन्नर्थेऽन्याय्यप्रातिपदिकात्तत्करोति तदाचष्ट इति णिच्मुत्पाद्यातो
लोप इत्यकारलोपे कृते, णेरनितीति णिलोपादद्रूपसिद्धिः, स्वापमानख्यापनप्रयोजनं च
पाण्डवानां कोपातिशयोत्पादनं श्रीत्वदर्शनप्रयोजनं श्रीपतेर्नारायणस्यैवांशा वयमिति
शत्रून्प्रति ख्यापनं परिहारवैभवमात्रार्थमस्य परिहारद्वयस्य सूचयितुमादिशब्देनानवक्लृप्त्य-
मिधानं दुराचारत्वाभ्युपगमेन धर्मबुद्धानाचरणमदसङ्कर इति परिहारवैभवार्थमेव रागेति
परिहारान्तरं दत्तम् ।
युधिष्ठिरस्याचार्यब्राह्मणवधार्थनृतभाषणे रागादिकृतत्वमेव परिहार इति प्रायश्चित्त-
करणेव दर्शयति—तथा चेति । ननु 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयत इति स्मृतेः
कामकृते प्रायश्चितं नास्तीत्याशङ्क्य कामकृतेऽप्येक' इति स्मृतिरुदाहृता । अन्तेऽपीत्यपि-
शब्देनास्य दुराचारत्वेनापि युद्धान्ते प्रायश्चित्तकरणान्नातिगर्हणीयो युधिष्ठिर इत्युक्तम् ।