मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 438, कुल 804 में से
संदर्भ में पढ़ें३८६ मीमांसादर्शनम् [ सू०
श्यः । परदारामियोगोक्त्या मियुज्यमानायां शच्यामपि शङ्कितं व्यतिक्रमं निराकर्तुमाह—
शच्याश्चेति । वशिष्ठाचारस्यापि पुत्रशोकजनितव्यामोहनिमित्तवारुणाद्यादमंबुद्ध्या क्रिय-
माणत्वाभावात्सदाचारत्वाभावनिश्चय इत्याह—वशिष्ठस्यापीति । श्लोकं व्याचष्टे - यो
हीति ।
विश्वामित्रे तेजोबलवशेनेति परिहारं विवृणोति—तेनेति । स हि व्यामोहाभावेऽप्या-
पदि मत्कुटुम्बं भृतवतस्त्रिशङ्कोः प्रत्युपकर्त्तव्यं मयेति प्रत्युपकारेच्छया चण्डालमपि वा
सशरीरं स्वर्गं नयामीति स्वप्रभावख्यापनेच्छया त्रिशङ्कुद्वेषिरि वशिष्ठे द्वेषाच्च तपोबलेन
पापं नाशयामीत्यध्यवसाय चण्डालं याजयामास । येन कारणेन कामादिहेतुकस्याचारस्य
धर्मादर्शनं नास्ति, तेन कारणेन विश्वामित्रचरितमपि न धर्मादर्शंत्वं प्रतिपद्यत इत्येवं
तेन शब्दो योज्यः ।
सर्वं बलवतः पथ्यमित्येतमेव न्यायं प्रकृते योजयितुमाह--महान्ति चेति । द्वैपायने
गर्हानिरासार्थं यथा वा न विरुद्धत्वमिति परिहारमुपक्रम्य अपरितोषात्तेजोबलवशेन वेत्ये-
तमेव परिहारं दर्शयति—द्वैपायनस्यापीति । कथं पराशरपुत्रस्य द्वैपायनस्य शन्तनुपुत्रो
विचित्रवीर्यो भ्रातेत्याशङ्क्य मातृसम्बन्धवचनम् । सत्यवत्यामनूढायां पराशराद् द्वैपायनो
जातः शन्तनुना पश्चादूढायां विचित्रवीर्यः । एवमपि ।
'यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥' मनु० ९।६९
इति नियोगस्य वाग्दत्ताविषयत्वादम्बिकाम्बालिकयोश्च विचित्रवीर्येण परिणीतत्वाद्वा-
स्याश्च भ्रातृजायात्वाभावाद् ब्रह्मचारिणश्च मंथुनस्य निषिद्धत्वादपरितोषेण प्राक्कृतेत्युक्तम् ।
रामभीष्मयोर्यंथा वा न विरुद्धत्वमिति परिहारं विवृणोति—रामेति । रतिपुत्रार्थत्वनिरा-
साय मातृशब्दः—नन्वेवं सति ।
'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥'
इति विहितातिक्रमात्प्रत्यवायः स्यादित्याशङ्क्य, स्नेह-पितृ—भक्तिवशादित्युक्तम् ।
रामेण सीतास्नेहाद्भार्यान्तरागमनव्रतग्रहणात्, भीष्मेण च शन्तन्वे सत्यवतीं तत्पितरं
याचता त्वयि महाबले राज्याभिलाषुके तिष्ठत्येतरयाः पुत्राणां राज्यालाभान्नेमां ददामीति
तत्पित्रा प्रत्याख्यातेन राज्यं नाहं करिष्यामीति प्रतिज्ञाते, त्वय्यनिच्छत्यपि त्वत्सन्तति-
भयान्नैतस्याः सन्तती राज्यभागिनी स्यादिति, तत्पित्रा पुनः प्रत्याख्यातेन ।
अपत्यहेतोरपि च करोम्येतद्विनिश्चयम् ।
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥
इति पितृभक्त्या ब्रह्मचर्यव्रतग्रहणात्रैमित्तिकेन च व्रतेन नित्यस्यर्त्तुकालगमनस्य
बाधाद्धर्ममात्रार्थमहं भार्यां परिणेष्यामीति परिभाव्य परिणीतायामगमनेऽप्यदोषः इत्या-