मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 389, कुल 804 में से
संदर्भ में पढ़ें४ ] प्रथमाध्याये तृतीयपादः ३३७
शेषः। श्वमांसभक्षणस्याननुज्ञानात्स दोषत्वं क्रीतराजकान्नभोजनस्य त्वनुज्ञानान्निर्दोषत्वमिति
परिहरति—उच्यतइति । विशेषरूपेणानुज्ञानस्यात्यन्तनिर्दोषत्वसूचनार्थम्—महानित्युक्तम् ।
नन्वापत्काले निषिद्धान्नभोजनस्य ।
जीवनात्ययमापन्नो योऽन्नमत्ति यतस्ततः ।
आकाश इव पङ्केन न स पापेन लिप्यते ॥
इति सामान्येन मनुनानुज्ञातत्वाद्दिशेषानुज्ञानार्थिकेत्याशङ्कयाह—सामान्येनेति ।
अनुज्ञासाफल्यप्रदर्शनार्थः स्तोकशब्दः । सामान्यानुज्ञातानुष्ठानस्य अल्पदोषत्वं कथमव-
गम्यत इत्यपेक्षायामाह—तथा चेति । विशेषानुज्ञातादन्येषां निषिद्धानां पापत्वेऽपि
तानि शेषान्यल्पानीति, अल्पवाची शेषशब्दः । अन्ते शौचं भविष्यतीत्यापद्धर्मगतं प्रत्युक्त-
मितीतिकरणाध्याहारेण योज्यम् । मनुवचनमुदाहरति—कर्मणेति । ननु कथं धर्ममाचरे-
दित्यस्य शौचविधानार्थताऽवसीयत इत्यपेक्षायामाह—धर्मश्चेति । फलार्थस्य धर्मस्य
वाक्यान्तरविहितत्वेन विध्यानर्थक्यात्, आपत्कालीनस्य वा कार्यकारणस्य निर्दोषत्वे
धर्माधिकारनिवर्तकत्वायोगात्प्रतिप्रसवार्थमपि विध्यनुपपत्तेः, सदोषत्वे वा प्रायश्चित्तं
विना धर्माधिकाराभावात्प्रायश्चित्तविधानार्थमेवेदं वचनमिति भावः । अतो विशेषानु-
ज्ञानस्यात्यन्तनिर्दोषत्वज्ञापनार्थत्वान्नानर्थक्यमित्युपसंहरति—यत्त्विति । ननु क्रीतराजकान्न-
भोजनस्यात्यन्तनिर्दोषत्वे द्वितीयोऽवधिरनर्थकः स्यादित्याशङ्कयानापदि सदोषत्वात्त-
द्विषयोऽसाविति दर्शयितुमाह—तत्रापि त्विति । एवमाशौचच्छेदकालवदापदनपद्विषय-
त्वेनावधिद्वयस्य व्यवस्थामुपपाद्याऽशौचकालानां जातदन्तादिविषयत्वपक्षे तत्साम्यार्थम्,
अन्यथा व्यवस्थामाह—यदि वेति । कालवैषम्यातसमविकल्पत्वाभावेऽप्यविरोधोऽवधार्यते इति
अपि शब्दाध्याहारेण योज्यम् । कथमित्यपेक्षायाम्—अर्थभेदव्यवस्थानादित्युक्तम् । तस्मा-
द्दीक्षितस्याविज्ञातस्य क्रीतराजकस्याभोज्यं भवतीत्याथर्वणैदिकस्य दीक्षितान्नभोजननिषेधोऽर्थः
तस्य तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्याथर्वणैदिकोऽवधिर्न दीक्षि-
तस्याश्नीयादिति त्रयीगतस्याभोजनसङ्कल्पविधिरर्थः । तस्य त्रयीगतोऽवधिरिति त्रय्यथर्व-
वेदगतयोर्वाक्ययोरर्थभेदेन तद्विषयतया विधिद्वयस्य व्यवस्थानादविरोध इत्यर्थः । अर्थभेदं
दर्शयति—दीक्षितान्नमिति । नित्यत्वप्रदर्शनार्थम्—ध्रुवमित्युक्तम् । न भोक्ष्य इति भोजन-
विषयो मनोव्यापारः सङ्कल्पो विधीयत इत्यर्थः ।
नन्वभोजननियमस्यापि भोजननिषेधार्थत्वात्तत्करणे दोषापत्तेः क्रीतराजकस्याप्य-
भोज्यान्नत्वं स्यादित्याशङ्क्य, फलार्थं वर्जनीयस्यानुष्ठानं न दोषापादकमिति दर्शयितुं
दृष्टान्तद्वयमाह—यथैवेति । श्राद्धभोजन-मांसभक्षणयोरपि निषिद्धत्वेन दोषवत्त्वात्साध्य-
विकलत्वाशङ्कानिराकरणार्थम्—न सर्वत्र निषिध्यत इत्युक्तम् । क्व निषिद्धता, क्व वा नेति
विवेकापेक्षायामाह—श्राद्धमिति । सदेति सपिण्डीकरणात्प्रागूर्ध्वं चेत्यर्थः । सपिण्डीकरणो-
त्तरकालमप्येकोद्दिष्टमप्यन्येषां स्मर्तॄणां मतेनानिषिद्धमिति द्योतनाय—एकेषामित्युक्तम् ।
२३