सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 388, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 388

३३६ मीमांसादर्शनम् [ सू०

एतदेव विवृणोति—न वर्द्धयेदिति । प्रसङ्गन्यायमात्रं योजयति—प्रवृत्त इति ।
नन्वसमासेनापि दशरात्राद्यवधिना शौचान्तरस्यैकदेशवर्तिनः कथं व्याप्तिरित्याशङ्क्याह—
वितत्येति । नात्राशौचाशौचपरिच्छेदकत्वं किं तु संख्यायाः । तस्याश्च व्यासज्यवृत्तित्वेना-
न्येऽहन्युपजायमानायास्तत्कालवर्तित्वाविशेषात्पूर्वोपरिभूतानेकाशौचापरिच्छेदकत्वमवि -
रुद्धमित्याशयः ।
नन्वेवं तर्हि पूर्वाशौचकालशेषेण तदन्तःपात्याशौचान्तरनिवृत्तेर्न्यायसिद्धत्वाद्द्वचनान्तरा-
दर्थक्यं स्यादित्याशङ्क्याह—शुद्धीति । अयमाशयः । शब्दैकसमधिगम्योऽर्थो न स न्यायस्य
विषयः तथा सत्यपेक्षाबुद्धिहेतुकत्वेनैकत्वातिरिक्तसंख्यायाः संख्येयाहर्विशेषसमूहापेक्षत्वात्तस्य
च जातमृतबन्धुभेदेन जन्ममरणावधिभेदेन भेदाज्जन्ममरणसामान्यविविक्षायां शावेन
सूतिशुद्धेरसम्भवादाशौचनिमित्तसामान्यविवक्षायां सूत्यापि शावशुद्ध्यापत्तेः ।
यत्तु न वर्द्धयेदघाहानीत्यनेन शेषाद्दः शुद्धेर्न्यायमूलत्वदर्शनं तच्छुद्धिप्रतीक्षि जातेष्टि-
मासिकादिमात्रविषयशेषमुद्धृत्यभिधानशङ्कानिवृत्त्यर्थमिति । नन्वेवं तर्ह्याशौचकालवृद्धौ दीक्षि-
तान्नकालयोरपि व्यवस्थैवास्तु, व्यवस्थितः कल्पो-द्विकल्प इति तु व्युत्पत्त्या व्यवस्थामेव
विकल्पशब्देनाभिप्रेत्याशौचच्छेदकालवदित्युक्तमित्याशङ्क्याह—नन्वेवमिति । अस्मिन्विषये
अयमवधिरिति विषयव्यवस्थितोऽवधिर्विषयावधिरिति मध्यमपदलोपी समासः । तस्य कारणं
विषयविशेषावधिव्यवस्थापकं कारणं भोजनान्वयेऽप्यवधेर्नित्यमव्यसापेक्षत्वात्कारणशब्द-
समासाविघातः । तस्माद्दार्ष्टान्तिके विकल्पव्यवस्थयोर्द्वयोरप्यसम्भवाद्विरोधपरिहाराशक्ते-
र्दीर्घावधेश्चात्रावधिबाधं विनात्मलाभायोगादल्पावधेर्वाध इत्याशङ्किता स्वाभिप्रेतसिद्धमु-
पसंहरति - तत्रेति ।
एवमाशङ्किते विरोधपरिहारवादी स्वाभिप्रायं प्रकटयति — तस्मादिति । यस्मादल्पा-
वधेरपि वैदिकत्वात् बाधो न युक्तः । तस्मादशौचच्छेदकालवदिहापि भोजनावधिद्वये
वैषम्यस्य व्यवस्थाया हेतुर्विषयभेदो वाच्यः, न तु कस्यचिद् बाध इत्यर्थः । कीदृशो विषय-
भेदे इत्यपेक्षायामाह — अत्रापीति । अनापद्यपि वा दीक्षितनियुक्तपुरुषान्तरदत्तान्नस्य
राजक्रयोत्तरकालं भोज्यत्वमिति परिहारान्तरम् दीक्षिते वेत्युक्तम् । अत्र सत्रिणो हि
अन्यैः प्रदापयेदन्नं भोज्यं तद्द्विजसत्तमैरिति स्मृतिपर्यालोचनया सूतकादसन्निपात-
भयान्मासादपर्याप्तं ब्राह्मणभोजनार्थमन्नमङ्गकल्प्य, अन्यमन्नं दानाय नियुञ्जते । अग्नीषोमी-
योत्तरकालं तु दीक्षितदत्तान्नभोजनमप्यदुष्टमित्याशयः । एतच्च परिहारान्तरं दीक्षितो न
ददातीति निषेधेन अग्नीषोमीयोत्तरकालमपि दीक्षितस्यान्नदानायोगादापातप्रतिभानमात्रेणा-
पारमार्थिकमेवोक्तमित्यपिशब्देन सूचितम् । नन्वन्नान्तरासम्भवेऽपि निषिद्धान्नभोजनं न
कार्यमित्याशङ्क्याह—आपद्धर्मइति । ननु करिष्यमाणप्रायश्चित्तबलेनापत्कालेऽप्यनुष्ठितस्य
निषिद्धस्य निर्दोषत्वाभावादनुज्ञाशास्त्रमप्रमाणमित्याशङ्कते—हन्तैवमिति । आपद्यपि
निषिद्धानुष्ठानस्य दोषत्वोपपादनायेतिहासमुदाहरति—जग्धवानिति । स च प्राप्तवानिति-