मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 372, कुल 804 में से
संदर्भ में पढ़ें३२० मीमांसादर्शनम् [ सू०
सूचितां प्रतिज्ञां व्याकुर्वन् सिद्धान्तमाह-अप्रमाणं वेति । एवेत्यर्थः यथाष्टकादि-
स्मृतेः वेदातिरिक्तमूलं न दृश्यते, नैवमत्र, लोभादिमूलत्वदर्शनादिति हेतुभागं
व्याचष्टे-स्मृतेरत्रेति । तदेव दर्शयति-लोभादिति । ततः-लोभाचरणात्,
तदेवास्या मूलमित्यर्थः ।
ननु वेदमूलत्वस्यापि संभवात् कथं लोभादिमूलत्वनियम इत्याशङ्क्याह-
उपपन्नतरं चेति । दृष्टे सत्यदृष्टकल्पनानुपपत्तेरित्यभिसन्धिः १ ॥ ४ ॥
त० वा०-इतश्च न प्रमाणत्वं मूलहेत्वन्तरेक्षणात् ।
व्यभिचारे हि नोत्पत्तिरर्थापत्त्यनुमानयोः ॥ १८३
श्रुतिविरोधभग्नप्रसरायां हि स्मृतौ पूर्वोक्तेन न्यायेन श्रुत्यनुमानप्रतिबन्धा-
दाकाङ्क्षितमूलान्तरावश्यकल्पयितव्यत्वाच्च ।
क्वचिद् भ्रान्तिः क्वचिल्लोभः क्वचियुक्तिविकल्पनम् ।
प्रतिभाकारणत्वेन निराकर्तुं न शक्यते ॥ १८४
स्मृतेश्च श्रुतिमग्नायाः कारणान्तरसंभवः ।
न तु श्रुतेरतः सैव तद्विरोधे हि बाध्यते ॥ १८५
यथैव वेदमूलत्वमनेकान्तान्न लभ्यते ।
तथाऽन्यमूलताऽपीति तदाशङ्क्येदमुच्यते ॥ १८६
उपपन्नतरं चैतद्वेदावाक्यानुमानतः ।
दृष्टे हि सत्यदृष्टस्य कल्पना निष्प्रमाणिका ॥ १८७
भाष्यमतेन विरोधाधिकरणम् ।
अधिकरणान्तरं वेति ।
सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा ॥ १८८
अपरितोषस्तावत्प्रथमेनैव श्रुतिविरुद्धत्वहेतुना बलवता सिद्धे बाधे, नान्वा-
चयहेतुरतीव प्रयोजनवान् । अधिकरणान्तरे पुनः पूर्वोक्तहेतुनिरपेक्षः पर्याप्त एवैकः
स्मृतिबाधनायेति स्वतन्त्रत्वेन प्रदर्शनम् । विरोधेन च व्याप्तायाः स्मृतेरप्रमाण-
तद्वचासौ नापवादान्तरोद्भवः । 'वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति' इत्यग्नीषोम-
प्रणयनार्थं विसर्जनहोमकालसंबन्धियजमानाच्छादनं वासोऽध्वर्युर्हरति मुक्तकमेवैत-
दावरणानुमितं स्मरणम् । एवं यूपहस्तिनो दानमाचरन्तीति यूपपरिव्यासशाटकं
यूपहस्तिशब्देन निर्दिश्याध्वर्युहर्तव्यतयाऽऽचारानुमितयैव स्मृत्या प्रतिपादयन्ति ।
१. सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वेतिवार्तिकमन्त्रानुसन्धेयम् ।