मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 368, कुल 804 में से
संदर्भ में पढ़ें३१६ मीमांसादर्शनम् [ सू०
परिच्छेदप्रदर्शनार्थं तत्रेति भाष्यं तत्प्रदर्शनासमर्थत्वेनाक्षिपति —तत्रेति । तत्रेतरेतराश्रयेऽ-
न्यतः परिच्छेदस्य प्रतिज्ञातत्वात् स्फुटमत्यन्तव्यतिरिक्तं हेत्वन्तरं वाच्यम् । भाष्यकार-
स्त्वेवमुक्त्वा तयोरेव श्रुतिस्मृत्योर्धर्ममेकं श्रुतिप्रामाण्यपरिच्छेदे क्लृप्तमूलत्वम्, स्मृतिप्रामाण्य-
परिच्छेदे चैकं कल्प्यमूलत्वं हेतुमिह किं प्रमाणं किमप्रमाणमिति परिच्छेदवेलायामुक्तवा-
नित्यर्थः । (श्रुतेः क्लृप्तमूलत्वम्, स्मृतेः कल्प्यमूलत्वं धर्ममुक्तवान् । न च सधर्मिणोऽन्यो
धर्मधर्मिणोरभेदात् तेन नान्यतः परिच्छेदोऽयमित्याशयः) द्वितीयव्याख्याने तु श्रुतिप्रामाण्य-
गतेतरेतराश्रयस्य सुपरिहरत्वपरिच्छेदे हेतुं क्लृप्तमूलत्वम् स्मृतिप्रामाण्यगतेतरेतराश्रयस्य
दुष्परिहरत्वपरिच्छेदे कल्प्यमूलत्वम्, इह किं सुपरिहरं किं दुष्परिहरमिति परिच्छेद-
वेलायामित्यर्थः ।
समाधत्ते —नैवेति । श्रुतिस्मृत्योर्विपरीतार्थत्वकृतमितरेतरविरोधित्वमितरेतराश्रयत्वं
तु श्रुतिस्मृतिप्रामाण्याप्रामाण्ययोः स्वरूपकृतं समाहितं भाष्यं व्याचष्टे—स्वत इति ।
स्मृतिप्रामाण्यगतेतरेतराश्रयस्य दुष्परिहरत्वपरिच्छेदे कल्प्यमूलत्वस्य हेतुत्वमुपपादयति—
ततश्चेति । नन्वात्मलाभाय स्मृतेर्मूलप्रमाणापेक्षत्वेऽप्यर्थप्रतिपादने निरपेक्षतया पुरुषवाक्य-
वत्स्वतः प्रमाणत्वेन श्रुत्यप्रामाण्यानपेक्षत्वात्तत्परिग्रहपक्षे वैकल्पिकशास्त्रान्तरवच्छ्रुत्य-
प्रामाण्याध्याहारारोपेऽपीतरेतराश्रयानापत्तिरित्याशङ्क्याह-न चेति । न तुल्यबलयोर्विकल्पः
सम्भवतीत्याशयः ।
दृष्टान्तेनैतदेवोपपादयति — बलवन्तन्निति । स्मृतिप्रामाण्यगतेतरेतराश्रयस्य दुष्परिहरत्व-
मुपसंहरति—एवं तावदिति । श्रुतिप्रामाण्यगतेतरेतराश्रयस्य सुपरिहरत्वपरिच्छेदे क्लृप्त-
मूलत्वस्य हेतुत्वमुपपादयति—यदा त्विति । तदा पूर्वसिद्धस्मृतिप्रामाण्यलिप्सायां पूर्वानु-
भवपारतन्त्र्यलक्षणस्मृतिस्वरूपाश्रयमप्रमाणत्वमादितः सिद्धमेव प्राप्य श्रुतिः प्रामाण्यमश्नुत-
इत्यन्वयः । श्रुतेः स्वतः प्रामाण्यात्स्मृतिप्रामाण्यलिप्सानुपपत्तिमाशङ्क्य, तत्रापि श्रुतावपि
निरपवादप्रामाण्यावधारणसिद्धेः—पराधीनत्वादित्युक्तम् । किं तत्परमित्यपेक्षिते—प्रति-
पक्षेत्याद्युक्तम् । पर्यालोचनापेक्षानिवृत्त्यर्थं क्षणमात्रमपीत्युक्तम् उपसंहरति—तेनेति ।
अननुमितावस्थायामित्यनेनाद्ये पदक इति व्याख्यातम् ।
क्लृप्तकल्प्यमूलस्यान्यतः परिच्छेदहेतुत्वप्रतिपादनार्थत्वेन सोऽसाविति भाष्यं व्याचष्टे—
इतीति । सर्वमेव वा ततश्चेत्याद्येतद्भाष्यव्याख्यानार्थं ततः क्लृप्तकल्प्यमूलत्वादुक्तेन
प्रकारेणान्यतः परिच्छेद इत्यर्थः । उक्तमेव प्रकारं कल्प्यमूलत्वादित्यादिभाष्यारूढं कर्तुं
संक्षिप्य यथाक्रमं दर्शयति—तेनेति । उक्तेन प्रकारेणैकत्र स्मृतिप्रामाण्यगतेतरेतराश्रये
श्रुतेराद्यस्य स्वतः सिद्धस्य प्रामाण्यस्यापवादासम्भवेनापेक्षितश्रुत्यप्रामाण्यालाभाद् दुष्परि-
हरत्वावसानं परिच्छेदो भवति । अवसीयत इति भावे लकारः । अन्यत्र श्रुतिप्रामाण्यगते-
तरेतराश्रये स्मृत्यप्रामाण्यस्यापेक्षितस्य लाभात्सुपरिहरत्वस्यावसानमित्यर्थः । नन्वेवं
सत्यपेक्षितस्मृत्यप्रामाण्यलाभमात्रेण श्रुतिप्रामाण्यगतेतरेतराश्रयस्य सुपरिहरत्वपरिच्छेदसिद्धेः
किमर्थं भाष्यकृताऽनुपूर्वी दर्शितेत्याशङ्क्याह—कृत्वेति । अपेक्षितलाभालाभोपपादनार्थं-